________________
३८५
(कर्णपर्व-१सर्गः] बालभारतम् ।
मनोरथं भर्तुरिवोद्धरामि रथस्य चक्रं सुकृतज्ञ यावत् । तावद्विलम्बस्व महास्त्रमोक्षे शूरा न शूरा व्यसनस्थितेऽरौ ।। ११२ ॥ हसन्नथामुं हरिराह कर्ण दिष्टयोपदेष्टुं सुकृतानि वेत्सि। विषाग्निचारे ऋतुजानिकारे सौभद्रमारेऽपि न किं स्मृतानि ॥ ११३ ॥ इत्यच्युतोक्त्या कुपितस्तदस्त्रं ब्रह्मास्त्रपातेन विजित्य कर्णः । बिम्ब रवेर्गन्तुमिव प्रतेने पद्यामियं द्यामनु बाणचकैः॥ ११४ ॥ अथ व्यमुञ्चत्प्रसभात्कृशानुमयं महास्त्रं ज्वलिताशमैन्द्रिः । जितौ यमार्को दिवि धूमतापैर्धाता च तातश्च वृषस्य येन ।। ११५ ॥ अथाक्षिपद्वारुणमस्त्रमार्किः शान्ताग्निकीलापटलं समन्तात् । संताप्य सद्यो जलमज्जितस्य रूप्यस्य रूपं तदगाद्यशोऽस्य ॥ ११६ ॥ इत्यस्त्रमस्त्रेण निहत्य तिष्ठन्कोऽवनिग्रस्तसमस्तचक्रः । प्रम्लानदुर्योधनवक्रपद्मो बभावसूर्येन्दुरिव प्रदोषः ॥ ११७ ॥ ततस्तपोभिर्यदि संप्रसन्ना रुद्रादयस्ते गुरवस्तदेनम् । हन्यामनेनेत्यभिमन्य हैमं बाणं मुमोचाञ्जलिकं किरीटी ॥ ११८ ॥ सूनोः शुचा दीर्णमिवोरुरन्ध्रमुरश्चिरं दर्शयति धेरत्ने । कम्पेन तेनाङ्गपतिविभिन्नः पपात पातालपतिव्यथाकृत् ॥ ११९ ॥ [वीरांग्रणीरिगजाश्वमुख्यः प्राणिवजप्राणनिरासरौद्रः । स्मरानुकारः पतितोऽपि कर्णः प्रकम्पयामास न कस्य चेतः ॥१२०॥ पृथातनूजं जनताललामं तदाजरत्क्ष्मा विबुधात्तवेषः । त्यागोज्झिताशेषधरापगर्वमिलागतं सेवितजामदग्निम् ॥ १२१ ॥ तद्दानविस्तारयितुं(8) जनेषु सासुं विसंज्ञं त्रियुगोऽभ्यधत्त । वैरोचनेऽवेहि वनीयकं मां त्वदानकीर्त्या हृतचित्तवृत्तिम् ॥ १२२ ॥ सुरेन्द्रयाच्ञार्थदनिष्फलाशो दूरागतो दूरितकिंचनोऽपि । वस्त्यस्तु ते याम्यथ किं ब्रवीमि स्वभाग्यनिष्ठो ननु सर्वलोकः ॥ १२३ ॥ इति प्रियोक्त्या यदवाप्तसंज्ञो द्विज द्विजे हाटकपद्मरत्नम् । नान्यत्र मेऽयेति जगाद कर्णस्तमेव देहीति पुनः प्रयुक्तः ॥ १२४ ॥ १. कोष्टकान्तर्गताः श्लोकाः ख-ग-पुस्तकयो!पलभ्यन्ते.
४९
Aho! Shrutgyanam