________________
९ शल्यपर्व - १ सर्गः ]
बालभारतम् ।
शल्यपर्व 1
प्रथमः सर्गः ।
३८७
[सतां परब्रह्म विलोकमार्गमपङ्किलं दूरितकण्टकं यः । श्रीभारतं ब्रह्म ततान शाब्दं स श्रेयसे सत्यवतीसुतोऽस्तु ॥ १ ॥ यद्भारती भारतपानलीलाः सुधाभुजां धाम न कामयामः । समुक्तिकानां परिलोभनानि ज्ञानानि नः कृष्णमुनिस्तनोतु ॥ २ ॥] युष्मान् शमसुधाम्भोधिः पायाद्वैपायनो मुनिः । शर्मशास्त्रैर्न कस्तापं यस्योर्मिभिरिव त्यजेत् ॥ ३ ॥ ततो निध्याय निःशेषनिधनं प्रधनं पुनः । नृपमेत्य जगौ दुःखैः संजयः खञ्जयन्वचः ॥ ४ ॥ राजन्रराज शौर्ये च दाने च प्रश्रये च यः । तस्मिन्कर्णे जगत्कर्णेन्द्रियैकग्राह्यतां गते ॥ ५ ॥ उद्भिन्नजीवितो राजन्पुत्रस्ते कर्णजीवितः । भूताविष्ट इव स्वेषां भियेऽभूद्विकलश्चलन् ॥ ६ ॥ बाढं कृपेण संध्यर्थमथितस्त्वत्सुतोऽवदत् । कः सुहृद्बन्धुभिर्मेलं कर्ता मेऽलं मृधं विना ॥ ७ ॥ ततो न मे समौ कृष्णाविति निष्णातशान्तवाक् । राज्ञा द्रौणिमतेऽरातिशल्यं शल्योऽभ्यषिच्यत ॥ ८ ॥ अमुं द्रोणाकिंभीष्मेभ्योऽधिकमर्जुनदुर्जयम् । स्वयं जहीति कृष्णोत्क्तत्या शल्यं वत्रे युधिष्ठिरः ॥ ९ ॥ अथ संभूय भूयोभिर्योध्यं नैकेन केनचित् । इत्युक्त्वा सर्वतोभद्रं व्यूहं मद्रपतिर्व्यधात् ॥ १० ॥ बलं विभज्य सैनेयधृष्टद्युम्नशिखण्डिभिः । कर्मसाक्षिणि साक्षित्वं गते धार्मिस्ततोऽचलत् ॥ ११॥
१. कोष्टकान्तर्गतौ श्लोकौ ख-ग-पुस्तकयोर्नोपलभ्येते. २. 'पापतापं न कः शास्त्रैर्य' व-ग. ३. 'एको' ख ग.
Aho ! Shrutgyanam