________________
८ कर्णपर्व - १ सर्गः ]
बालभारतम् ।
३७९
शल्योऽथ तं स्माह मुहः किमित्थं मामात्थ नाथोऽसि यदङ्गभूमेः । विक्रेयतानीतकलत्रपुत्रैस्त्याज्या जनन्योऽपि जनैर्न यत्र ॥ ३६ ॥ क्रुधं विधत्सेऽभिहिते हितेऽपि राधेय युध्यस्व तदर्जुनेन । उक्त्वेति शल्यस्त्वरयांचकार हरीनरीणां जडयन्मनांसि ॥ ३७ ॥ महारथानामिषवोऽन्तरिक्षे तदा मिथः पातविलूनदेहाः । तेजोमयं प्राप्य शरीरमंशुच्छलेन मन्ये तपनं प्रविष्टाः ॥ ३८ ॥ संनाहदृङ्मार्गगलल्ललाटस्वेदोदबिन्दुर्दलयन्नथारीन् ।
अस्मिन्नियत्या निहते नियोगे रुदन्निवादर्शि दयालुरैन्द्रिः ॥ ३९ ॥ अथावदन्मद्रनृपोऽङ्गभूपं कुतूहलं सूतज पश्य पश्य ।
लीलालवः संयति योऽर्जुनस्य प्राणापहारः स महारथानाम् ॥ ४० ॥ मृत्यौ समासीदति पश्य कर्ण कुरुश्रियामुत्कटवार्धकानाम् | अपाति दन्तैर्नरकाण्डलूननृपालिमौलिच्युतहारमूर्त्या ॥ ४१ ॥ पश्यैन्द्रिवाणा युधि सप्त सप्ताष्टाष्ट द्विषः कर्ण निपात्य तुष्टाः । ध्वान्ताविले यान्ति विलेभिरन्तुं जयश्रियं चारुतरां गृहीत्वा ॥ ४२ ॥ इतस्ततः शैलततीस्ततान कोदण्डकोऽचैव पुरा पृथुर्यत् । तत्कौतुकं शान्तमगुर्दिगन्तान्यद्भूभृतोऽस्मिन्धृतचाप एव ॥ ४३ ॥ शरत्वरामारुतलुप्तखेदसंसुप्तसंसप्तकचक्रवालः ।
वृषः क्षणादेषु बलेषु वल्गन्हरेः सुतोऽयं वद केन सह्यः ॥ ४४ ॥ अद्य व यास्यत्यधुना मृधेऽसौ दृष्टो मयेत्युल्लसदंशमुक्त्वा । कर्णः शराकीर्णनभा नभस्वत्प्रभाततेरप्यदितावकाशम् ॥ ४९ ॥ शरोत्करैरर्कसुतस्य दिक्षु भित्तीभवद्भिः स्खलितेऽपि वाते ! आव्यथ्यमाना बलिना भयेन वनीव पाण्डुध्वजिनी चकम्पे ॥ ४६ ॥ काण्डैर्महामण्डपमन्तरिक्षे कृत्वाग्रजं भोजयितुं कृतान्तम् ।
शवान्नकूटान्पतितातपत्रपात्रे रणे सूरसुतस्ततान ॥ ४७ ॥ विद्धा मृधोर्वीषु सहस्ररश्मिसुतेन तेनाशुगमण्डलैर्ये । तदाशुगैर्विव्यधुरात्मभिस्ते रोषादिव व्योम्नि सहस्ररश्मिम् ॥ ४८ ॥ १. 'वैधेय' क-ग.
Aho ! Shrutgyanam