________________
३७८
काव्यमाला।
इत्युक्तिपूरैर्नृपतेः सुधौघसमद्रवैर्मद्रपतिः प्रसन्नः। खच्छन्दचारी रविनन्दनस्य सूतो भवामीति भृशं बभाषे ॥ २४ ॥ ततः सितोष्णीषधरोऽङ्गभर्ता रथं वलक्षाश्चमकूजनाख्यम् । महेन्द्रसूतं भृगुसूनुदत्तं तं दन्तिकक्षाध्वजमारुरोह ॥ २५ ॥ कुरूद्वहेषु ध्वनिदीर्णदिक्षु धुन्वन्धनुः शल्यमुवाच कर्णः । अद्यार्जुनं हन्मि यतो मुरारिस्ततो जयः स्यादिति वाङ्मधास्तु ॥ २६ ।। मयेन्द्रपुत्रेऽद्य हते रुषेन्द्रः सेवायतायास्त्रिदशास्त्रपतेः। । लज्जाविनम्राण्यपि दृग्भिरंहिगताभिरालोकयतां मुखानि ॥ २७ ॥ शल्यः स तं माह हसन्यदृच्छा प्रलापतः कर्ण न लज्जसे किम् । भोः केन न त्वं स च दृष्टसारो गन्धर्वयुद्धे च गवां ग्रहे च ॥ २८ ॥ द्रष्टासि तेजोऽद्य ममेति शल्यं संभाष्य कर्णोऽथ जगाद भृत्यान् । . संप्रेक्ष्यतां कास्ति जितेन्द्ररुद्रः पार्थस्तदर्थ विशिखा ममोत्काः ॥२९॥ (यो दर्शयत्यर्जुनमद्य तस्मै ददामि दामानि रणन्मणीनि । रामास्तुरंगान्करिणः पुराणि साराणि यद्वा स्वयमीहते सः ॥ ३० ॥ उवाच शल्योऽथ हसन्नवैमि सत्यीभवत्कर्ण वचस्तवेदम् । यदर्जुनो दर्शयिता स्वयं स्वमिष्टान्ग्रहीता भवतस्ततोऽसून् ॥ ३१॥ स्पर्धा मृधे मा कुरु भर्तृपिण्डपुष्टोऽद्य राज्यांशभुजार्जुनेन । हंसेन हेमाजभुजा गृहस्थोच्छिष्टाहृतिः काक इव द्युयाने ॥ ३२ ॥ तावन्महान्त्यङ्गमहीभुजंग कुरङ्गवत्तुङ्गय रङ्गणानि । मृगेन्द्रवद्यावदफल्गुपातं न फाल्गुनो वल्गति वल्गुतेजाः ॥ ३३ ॥ क्रुद्धोऽथ कर्णो निजगाद वेद्मि तमर्जुनं मां च स वेत्ति तत्त्वात् । शल्योपमैः शल्य किमत्र शत्रुमित्रोपधिस्त्रासयसीव वाक्यैः ॥ ३४ ॥ . वदाथवा स्वैरमगम्यगन्तुरपेयपातुर्यदभक्ष्यभोक्तुः । त्वं मद्रदेशैकनिवेशनस्य जनस्य नेतासि शुचिः कुतोऽस्ति ॥ ३५ ॥
१. 'अथाह शल्यः ख-ग. २. 'संलाप्य' ख-ग. ३. 'क्वापि' ख-ग. ४ धनुचिहान्तरगतः श्लोको भ्रष्टः क-पुस्तकात्..
Aho ! Shrutgyanam