________________
७द्रोणपर्व - ४ सर्गः ]
बालभारतम् ।
मूर्तिसेवापरः शंभोस्त्वं तु जातस्तदंशताम् ।
विश्वरूपस्य रूपं हि लिङ्गमङ्गं तु तल्लवः ॥ १८७ ॥ तन्मा कृथाः पृथासूनुकृष्णयोर्धानि विक्रियाम् । रुद्रांश सततं रुद्ररूपयोरेकरूपयोः ॥ १८८ ॥ इत्युक्वान्तर्हिते व्यासे द्रौणिर्नत्वा हृदा हरम् । देवरूपौ स्वयं कृष्णौ शान्तमन्युरमन्यत ॥ १८९ ॥ ततो विरतसंहारेऽवहारे विहिते नृपैः । अभिसर्पन्निवाम्नायव्यासं वासविरैक्षत ॥ १९० ॥ नत्वाथ पप्रच्छ मुनिं पृथाभूर्हष्टः पुमाञ्शूलकरो मया । कुरून्हरशूलभैवैस्त्रिलोकग्रासत्रिजिद्वैरिव कस्त्रिशूलैः ॥ १९१ ॥ अथाददे वाचमयं मुनीन्दुः कृष्णप्रसादेन तव प्रसन्नः । स्वामी स कामी गिरिपुत्रिकाया जगत्रयीकाननकल्पवृक्षः || १९२ ॥ तमात्मानमनात्मानं तमीश्वरमनीश्वरम् ।
पार्थ तं ज्ञानमज्ञानं ध्यायतं प्रियमप्रियम् ॥ १९३ ॥ इत्थं जगत्पतिजपैरनुगृह्य पार्थे
याते मुनौ निजनिजं शिबिरं प्रविश्य । वीराः शरीररुचिक्लृप्तदिना दिनान्ते
चक्रुः कथामवितथासु भटप्रथासु ॥ १९४ ॥ भेजे श्रीजिनदत्तसूरि सुगुरोरर्हन्मतार्हस्थितेः
पादाब्जभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । तद्वाकर्मणि बालभारतमहाकाव्ये कविप्रीतिदे
२
३७५
पीयूषद्रवधानि सप्तममिदं द्रोणस्य पर्वाद्रवत् ॥ १९९ ॥ सर्गैश्चतुर्भिरप्यत्रानुष्टुभां द्रोणपर्वणि ।
अशीतिसंनिकृष्टानि निर्दिष्टानि शतानि षट् ॥ १९६ ॥
इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के द्रोणपर्वणि पञ्चमदिवसयुद्धे द्रोणवधो नाम चतुर्थः सर्गः । द्रोणपर्व समाप्तम् ।
१. 'विश्वरूपस्वरूपं' ख ग २. 'रचित' ख-ग. ३. 'भरे' क.
Aho ! Shrutgyanam