________________
३७६
काव्यमाला ।
कर्णपर्व |
प्रथमः सर्गः ।
अगोचरं वागधिदेवताया वाचामपि स्वं चरितप्रपञ्चम् । वक्तुं जगत्तारणकारणेन व्यासीभवन्पातु स वो मुरारिः ॥ १ ॥ पुनः कुरुक्षेत्र निषण्णनेत्रः संग्राममुद्दामतमं निरूप्य । गावल्गणिर्द्रोणवधाकुलाय न्यवेदयत्कौरवपुंगवाय ॥ २ ॥ ततः कृपीसूनुमते कुरूणां सेनाधिपत्ये मुदितेन राज्ञा । कर्णोऽभिषक्तस्तृणवत्रिलोकीं मेने दृशा क्रोधशिखित्विषेव ॥ ३ ॥ स्मरानुकारो मकरक्रमेण बलं महद्वयूह्य तदङ्गराजः । राजञ्जगज्जैत्रपतत्रिपातः प्रकम्पयामास न कस्य चेतः ॥ ४ ॥ विभूष्य भूमिं हरमूर्तिमर्धचन्द्रानुकारेण बलेन पार्थः । जज्वाल भालाक्षिवदस्त्रजालज्वालाकरालो भयदस्तदग्रे ॥ ९ ॥ अथास्त्रसंघट्टपरम्पराभिश्चैर्णीकृतानां तपनद्युतीनाम् । लेशैरिव व्योमतलं स्फुलिङ्गैः शृङ्गारयन्तः सुभटाः प्रसस्रुः ॥ ६ ॥
पक्षद्वयक्ष्मापपटुप्रतापस्विद्यज्जयश्रीयुगघर्मनीरैः ।
इतस्ततोऽपि क्षतजच्छलेन काश्मीरमित्रैरिव भूरभूषि ॥ ७ ॥ रिपुक्षुरप्रोत्पतितप्रवीरताटङ्किवत्रौघनिभाद्विभाते ।
अभ्युद्गमोऽकारि स कोकयुग्मैरिवाम्बुजैरम्बुजकोकबन्धोः ॥ ८ ॥ गदाप्रपातोत्पतदत्रबिन्दुसिन्दूरिताशापति कुम्भिकुम्भः ।
सामीरिणा मत्तकारिस्थितेन कुलूतराजः सगजोऽपि जघ्ने ॥ ९ ॥ आच्छादिते रेणुभरेण मानौ नभःस्पृशा संयति भानुसनुः । शस्त्रक्षतारिक्षतजौघवृष्ट्या निविष्टरेणुं धरणीं चकार ॥ १० ॥ निपात्य संसप्तकमण्डलानि क्ष्माखण्डमाखण्डलसूनुरस्त्रैः । चकार कोपारुणदृष्टिधाम वृष्टिप्रपञ्चैरिव पूर्यमाणम् ॥ ११ ॥
१. 'हरि' क. २. 'र्भस्मीकृतानां' क. ३. 'भूरिभूषि' क.
Aho ! Shrutgyanam