________________
काव्यमाला।
सह पाण्डुचमूदुःखैः सह द्रौणिमनोरथैः । सह विश्वोपतापैश्च ततोऽस्त्रं तद्ययौ शमम् ॥ १७५ ॥ अस्त्रं पुनर्विमुञ्चेति द्रौणिर्दुर्योधनेरितः । द्विः प्रयोज्यं न दिव्यास्त्रमित्युक्त्वाधावदुद्धतः ॥ १७६ ॥ वज्रसारैः शरासारैर्जित्वा सात्यकिपार्षतौ । ' भूपं सुदर्शनं निन्ये पौरवं यमपौरताम् ॥ १७७ ॥ त्रस्यन्ती धर्मजचमूमनुधावन्नथ क्रुधा ।। रुद्धो धनंजयेनास्त्रमाग्नेयं द्रौणिरक्षिपत् ॥ १७८ ॥ अस्त्रस्य तस्य कीलाभिः श्लिष्यमाणाश्चमूभेटाः । कालकिंकरजिह्वाभिर्दह्यमाना इवाबभुः ॥ १७९ ॥ धूमोमिमन्दमार्तण्डदृश्यतारकमण्डलम् । प्रदह्याक्षौहिणी मङ्क्ष तदस्त्रं कृष्णमाद्रवत् ॥ १८० ।। तत्कीलापटलालीढौ कृष्णौ प्रधनमूर्धनि । तदा गर्भितनीलाश्महेमताडङ्कतां गतौ ॥ १८१ ॥ अथ पार्थो बभौ क्षिप्तब्रह्मास्त्रशमितानलः । तत्कालदहनोत्तीर्णसुवर्णवदतिद्युतिः ॥ १८२ ॥ अपाण्डवामकृत्वापि महीं शान्तेऽस्त्रपावके । दिव्यास्त्राणि तदा निन्दन्द्रौणिासमलोकत ॥ १८३ ।। रथं मुक्त्वा मुनि नत्वा ततोऽपृच्छत्कृपीसुतः । विफलत्वं किमस्त्राणि कृष्णयोरगमन्मम ॥ १८४ ॥ अथोवाच मुनिर्वत्स विद्धि बीभत्सुकेशवौ । निमित्तमानवावेतौ नरनारायणावृषी ॥ १८ ॥ तपःषष्टिसहस्राब्दी तप्त्वा नारायणो मुनिः। लिङ्गार्चनव॑तः शर्व सेवित्वा तत्समोऽभवत् ॥ १८६ ॥ १. 'नदन्नुषा' ख. २. 'चयाः' ख. ३. 'गर्भग' ख. ४. 'व्रतात्सर्वे सेवित्वा न समो' क.
Aho! Shrutgyanam