________________
७द्रोणपर्व-४सर्गः] बालभारतम् ।
३७३ अथ नारायणास्त्रोत्थैर्व्यथितां विविधायुधैः । सेनां प्रेक्ष्य नरं पश्यन्भूधवान्धामिरम्यधात् ॥ १६३ ॥ सत्यजित्प्रमुखा येन हता हन्त महारथाः । दुग्धमुग्धमुखो येन सौभद्रश्छलतो हतः ॥ १६४ ॥ दुर्योधनाय दुर्भेदं दिव्यं यः कवचं ददौ । वधे तस्य गुरोः क्रुध्यन्मध्यस्थोऽभून्मृधेऽर्जुनः ॥ १६५ ॥
(युग्मम्) वस्त्यस्मै भोः पलायध्वं प्रवेक्ष्याम्येष पावकम् । केन शक्योऽधुना जेतुं कालकल्पः कृपीसुतः ॥ १६६ ॥ अथोडाहुश्चतुर्बाहुरूचे प्रज्वलितान्नृपान् । नास्त्रेणानेन दह्यन्ते त्यक्तायुधरथा युधि ॥ १६७ ॥ इति श्रुत्वाभ्यधाद्भीमो भो भो मा भैष्ट भूमिपाः । हन्म्येष पश्यत द्रौणिं निर्दयं गदयानया ॥ १६८ ।। इत्युदीर्यातिगर्जन्तं धाविनं पावनि पुनः । मूढोऽयमित्युपहसन्द्रौणिर्बाणैरेपूरयत् ॥ १६९ ॥ अथो रथायुधमुचां मुक्त्वा चक्रं महीभुजाम् । एकीभूयास्त्रकीलालिड्भिीमं भीममासदत् ॥ १७० ॥ अस्त्रकीलाकलापेन वृतो भीमस्तदा बभौ । प्रतापभासुरो भानुर्यथा कल्पान्तवहिना ॥ १७१ ॥ वारुणं मारुतित्राणमस्त्रमैन्द्रिस्तदामुचत् । क्षणान्नारायणास्त्रेण तदप्यफलितं बलात् ॥ १७२ ॥ अस्त्रेण ताप्यमानोऽपि युध्यमानो वृकोदरः । अभूच्चेतश्चमत्कारकारी दिविषदामपि ॥ १७३ ॥ मुक्त्वाथ मन्थरहयं रथमेत्यातिरंहसा ।
यानादाकृष्य कृष्णाभ्यां भीमोऽस्त्रं त्याजितो बलात् ॥ १७४ ॥ १. 'ये निजं तेजः' क. २. 'रपूजयत्' क. ३. 'तेषां' क. ४. 'रिव' ख-ग.
Aho! Shrutgyanam