________________
३७०
काव्यमाला |
भिन्नेभकुम्भनिर्मुक्तामुक्तासिततिलास्ततः । तत्र प्रसतुरस्रौघस्त्रवन्त्यः पलपङ्किलाः ॥ १२९ ॥ सप्तलोकतमांसीव सप्तसप्तिर्दिवोदये । सप्तार्णवानिवौर्वाग्निर्द्रोणः सप्तार्दयच्चमूः ॥ १२६ ॥ ऊचे कृष्णोऽथ कौन्तेयानजेयोऽसौ धृतायुधः । अस्त्रं सुतमृतिश्रुत्या त्यजेन्नीत्या क्रियेत सा ॥ १२७ ॥ इत्याकर्ण्यार्जुने कर्णौ पिधायाधोमुखे स्थिते । कथंचिदम्युपगमान्मूके शोकेन भूपतौ ॥ १२८ ॥ आलभ्य मालवपतेरश्वत्थामाभिधं द्विपम् । अश्वत्थामा हत इति प्रोच्चैरूचे वृकोदरः ॥ १२९ ॥ लज्जामज्जन्मुखाद्भीमाद्गुरुः श्रुत्वेदमप्रियम् । जानन्नजेयतां सूनोस्तदश्रद्धाय युद्धवान् ॥ १३० ॥ वीरान्षष्टिसहस्रों स पाञ्चालान्हन्तुमुद्यतान् । जघान कपिल: कोपी सगरस्य सुतानिव ॥ १३१ ॥ प्रयुतानि प्रवीराणां ब्रह्मास्त्रेणाथ निर्दहन् । चतुर्वर्षशतोऽप्येष युवेव व्यचरत्तराम् ॥ १३२ ॥ कर्म कुर्वन्नतिक्रूरं निषिद्धोऽथ सुरर्षिभिः । भीमोक्ति शङ्कितोऽपृच्छत्सत्यनिष्ठाद्युधिष्ठिरात् ॥ १३३ ॥ हरिणाभ्यर्थितो बाढं लोकप्रलयशान्तये ।
भीमोति धार्मिरयुक्त्वा स्वैरं हस्तीत्यभाषत ॥ १३४ ॥ कृष्ण कम्बु स्वनैर्हस्तीत्यनिशम्य नृपोदितम् । शल्यितः सुतशोकेन क्षणं स्तब्धः स्थितो गुरुः ॥ १३५ ॥ अस्पृशन्तो भृशं भूमिं तं भूपं येऽवहन्हयाः ।
ते भुवैव तदा चेरुर्बद्धपक्षा इवाण्डजाः ॥ १३६ ॥
धृष्टद्युम्नं प्रदीप्तास्त्रं कृष्टजिह्वमिवान्तकम् । जित्वा ततो जघानाशु दशवीरायुतीं गुरुः ॥ १३७ ॥ १. 'शङ्कितः ' ग.
Aho ! Shrutgyanam