________________
७द्रोणपर्व-४सर्गः]
बालभारतम् ।
३७१
इति द्विड्भयदं भीमः समभ्येत्य समभ्यधात् । सुते मृतेऽपि विप्रोऽपि पलाद इव हंसि धिक् ॥ १३८ ॥ इत्याकर्ण्य विमुच्यास्त्रं दत्तविश्वाभयो गुरुः । योगीन्दुर्दशमद्वारनिष्क्रान्तार्चिरुपाविशत् ॥ १३९ ॥ प्रागुत्क्रान्तात्मनस्तस्य नमसोस्तरवेरिव । पार्षतः प्रविवेशाङ्गमन्धकार इवाधमः ।। १४०॥ क्रुद्धपार्थनिषिद्धोऽपि धिकृतोऽपि नृपैरयम् । कचैराकृष्य खड्नेन गुरोर्मूर्धानमच्छिनत् ॥ १४१ ॥ त्रस्तेऽथ कौरवबले किमेतदिति पृच्छतः । . . द्रौणेराख्यत्कृपः कृत्स्नमाशु दुर्योधनेरितः ॥ १४२ ॥ ततः पितृवधक्रोधी रुद्रांशो भालरौद्रदृक् । अश्वत्थामा दधौ रूपं कल्पान्तायेव भैरवम् ॥ १४३ ।। पिबन्करं करेणायं कोपोष्मलोषितप्रजम् । ऊचे कोपानलोल्काभिः स्खलद्भिसिरैर्मुहुः ।। १४४ ॥ श्रावयद्भिः पितुः कर्णो मृतं मां हन्त तैरपि । मृत एवासि किं ध्यातो यत्केशैर्जगृहुर्गुरुम् ॥ १४५ ॥ आजन्मधृतसत्योऽथ धर्मजोऽपि गुरुव्यये । दधौ मृषोक्ति जीवत्सु विश्वासः क्षत्रियेषु कः ॥ १४६ ॥ अद्य नारायणास्त्रेण पितृदत्तेन विष्टपम् । असौ करोम्यपाञ्चालमपाण्डवमकेशवम् ॥ १४७ ।। इत्युक्त्वा शुचिरादाय प्रकम्पितसुरासुरम् । अस्त्रं नारायणं द्रौणिर्जगोंद्धतमूर्धनः ।। १४८ ॥ बलमाकुलमालोक्य तन्नादेनेन्द्रनन्दनः। अनुतापपरः क्षमापमूचे भ्रूचेष्टयोत्कटः ॥ १४९ ॥ राजन्नाजन्मसत्योक्तौ त्वयि सप्रत्ययो गुरुः ।
जन्ने निरस्त्रो यदि तत्सह्यः केनैष तत्सुतः ॥ १५० ।। १. 'तद्धात्यः' ख,
Aho! Shrutgyanam