________________
७द्रोणपर्व - ४ सर्गः ]
बालभारतम् ।
खण्डमूर्ते विधोबिंम्बै रक्तकुल्यासु दिद्युते । कृत्तैरिव तनूखण्डैः कुलव्यसनसंयति ॥ ११३ ॥ अथ द्विजेश्वरकर क्रीडाकलितशान्तिके । वियद्धानि विवेशार्कः कुर्वन्वसुमयीं महीम् ॥ ११४ ॥ गुरुः कुरुनरेन्द्रेण वाक्शल्यैः शल्यितस्ततः । क्रुद्धो विव्याध दिव्यास्त्रैरनस्त्रकुशलानपि ॥ ११५ ॥ संपरायपरायते यत्ते रिपुचमूचये ।
चकार कदनं श्रान्तः कृतान्तरदनं गुरुः ॥ ११६ ॥ किमकालक्षयोत्तालं भालचक्षुस्त्रिचक्षुषः । द्रोणपाणितले प्रायः प्राणिनश्छित्तयेऽभ्ययात् ॥ ११७ ॥ इत्युल्कामण्डलीचण्डकाण्डग्रस्त प्रजात्रजम् ।
दीप्तं निरूप्य तच्चापं खेचराः प्रोचिरे भयात् ॥ ११८ ॥ (युग्मम्)
पतत्सु द्रोणबाणेषु चर्मवर्मभटादिषु । रक्ताब्धि मज्जनेनैव वचनं विदधुर्बुधाः ॥ ११९ ॥ क्षिप्तैर्दुपदपुत्राणामिन्दुवृन्दैरिवाननैः ।
द्रोणश्चकार रक्तोदं तदा कालोदजित्वरम् ॥ १२० ॥ द्रोणेऽस्मिन्नचले क्लृप्तप्रचण्डप्रहृती ततः । विराटद्रुपदौ शौर्यद्विपदन्तौ निपेततुः ॥ १२१ ॥ धार्मितेजो यशः सूर्यशशितुल्यग्रहस्पृहः । क्षुरप्रलूनौ तन्मौली राहुयुग्मं गुरुर्व्यधात् ॥ १२२ ॥ आद्रवन्तो गुरुं भीमधृष्टद्युम्नादयस्तदा । गजैरिव गजाः कर्णशकुन्याद्यैर्धृता युधि ॥ १२३ ॥ रजः कालरजन्युग्रो मिलत्सर्वबलाम्बुधिः । भूयिष्ठभैरवरवः क्षयस्तत्राद्भुतोऽभवत् ॥ १२४ ॥
१. 'यत्ने' न. २. 'स्पृशौ ग.
४७
Aho ! Shrutgyanam
३३९