________________
३६८
काव्यमाला। पार्थः पात्योऽथ शक्त्येति कौरवैः शिक्षितोऽन्वहम् । तदत्तवद्विसस्मार युधि मन्मोहितो वृषा ॥ १० ॥ एकलव्यजरासंधशिशुपालादयो मया । दुर्जया जन्निरे युक्त्या मत्वेतत्प्रधनं पुरा ॥ १०१ ॥ मत्संसाधितदुःसाधमित्यैतद्वैरिमण्डलम् । अस्त्रास्त्रत्वक्पुटस्तोमं नारिकेलमिवाहर ॥ १०२ ॥ इत्युक्ते शौरिणा सर्वे भूपभीमार्जुनादयः । शोकाग्निं युधि रोषाग्नीकृत्य धीरा दधाविरे ॥ १०३ ॥ युध्यस्व धर्मान्मा क्रुध्य चतुर्थेऽह्नि जयस्तव । इत्यादिशत्तदा व्यासः क्षणदृष्टो युधिष्ठिरम् ॥ १०४ ॥ अथोग्रे तमसि क्ष्वेडातुल्यकालं मिथः शराः। पेतुर्वक्रोदरेष्वेव योधानां शब्दवेधिनाम् ॥ १०५ ॥ ध्वान्तेषूग्रेषु सैन्याङ्गं दीप्तं दीप्तं मणित्विषा । द्विड्बाणा विव्यधुः कालनखाग्रेणेवै दर्शितम् ॥ १०६ ॥ उत्पपातेव नाराचैननवासिभिस्तदा । निशीथे यौवनोन्मत्तं ननर्देव द्विपैस्तमः ॥ १०७ ॥ इत्थं चिरप्रहारेण भूभृतस्तेऽपि शश्रमुः । स्यान्न येषां श्रमांशोऽपि साब्धिशैलधरां धृतौ ॥ १०८ ॥ अश्रान्तः करुणाक्रान्तमनाः संक्रन्दनात्मजः । तदाचख्यौ कृती वीरान्क्षणं विश्रम्यतामिति ॥ १०९ ॥ ततः पार्थ प्रशंसन्तस्ते दुःखोच्छेददैवतम् । निद्रां हरिकरिस्कन्धस्थिता एव सिषेविरे ॥ ११० ॥ रेजतुर्युद्धसंनद्धे ते सेने स्वापनिश्चले । यमौकश्चित्रवन्नानारत्नभूषांशुवर्णके ॥ १११ ॥ अथोद्ययौ शशी सुप्तान्करैरमृतवर्षिभिः । स्पृशन्निव प्रहारार्तान्कुलवीरान्सहानुगैः ॥ ११२ ॥ १. 'तद्वृत्त' ख. २. 'वृषः' क-ख-ग. ३. 'णैव' क-ख.
Aho! Shrutgyanam