________________
७द्रोणपर्व-४सर्गः)
बालभारतम् ।
अहो गजेषु वाहानां वाहेषु भुजवाहिनाम् । भुजवाहिषु चाद्रीणां तलमिच्छत्सु संश्रयम् ॥ ८९ ॥ कौरवाः करिघण्टाभिरुत्तमाङ्करक्षिणः । एत्य युद्धरसाधीनं दीनास्याः कर्णमूचिरे ॥ ९० ॥
(त्रिभिर्विशेषकम्) अधुनाप्यमुनास्मासु हृतासुषु वृषस्त्वया । शक्त्या निघात्यः कस्यार्थे पार्थो वासवदत्तया ॥ ९१ ॥ इत्याका मुचकर्णस्तदस्त्रं वासवं ज्वलत् । सुसंकटाय कस्मैचिन्निधानमिव रक्षितम् ॥ ९२ ॥ मायास्त्रस्य पलादस्य मायास्थानं विदार्यहृत् । घ्नती तमोऽपि तन्मित्रं सा शक्तिस्त्रिदिवं ययौ ॥ ९३ ॥ विपन्नोऽपि हितं स्वेषां परेषामहितं सृजन् । संजहार महारक्षो विभुरक्षौहिणीं पतन् ॥ ९४ ॥ पतिते तत्र वीरेन्द्र कौरवा ननृतुर्मुदा । कृष्णोऽपि जगदात्मत्वं ज्ञापयन्निव नृत्तवान् ॥ ९५ ॥ विष्वक्सेनविषादेऽपि कृत्ये नृत्येन भासि किम् । इत्यैन्द्रिणा तदा पृष्टो नृत्यन्नेवाभ्यधात्प्रभुः ॥ ९६ ॥ तेजोमयवपुः कर्णः कुरूणां जीवितं परम् ।। शक्तिर्वासवदत्तेयमभूत्तस्यापि जीवितम् ॥ ९७ ॥ न त्वत्सूनुरघानीति हसन्तीवांशुभिर्मुदा । सैकपुंघातिनी शक्तिभैमि हत्वा हरि श्रिता ॥ ९८ ॥ गतायां त्रिदिवं तस्यां मृतानेतान्न वेत्सि किम् । यात्यायाति मुखेऽमीषां श्वासः कोटरकायवत् ॥ ९९ ॥
१. 'अथो ख. २-३. 'गज' ख. ४. अकारान्तवृषशब्दस्य क-ख-ग-पुस्तकहष्टस्य कर्णवाचकताया मेदिन्यामदर्शनात् , नकारान्तस्यैव दर्शनात् 'वृषस्त्वया' इत्युचितम्. ५. 'वाथ सं' क. ६. 'जगदात्महितं तत्त्वं' क. ७. 'रघातीति' क-स. ८. 'योत्या' ग.
Aho! Shrutgyanam