SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । एत्य पार्थवरूथिन्यां मृद्गन्तमथ पार्थिवान् । पुनर्विरथ्याधिरथिं हैडम्बोऽविशदम्बरम् ॥ ७७ ॥ स दशापि दिशो हादैादैवोक्तिमयीः सृजन् । ववर्ष राक्षसो वृक्षविषभृद्रावपावकैः ॥ ७८ ॥ ततो पदे पदे शुष्यद्दिक्षु सर्वासु तद्बलम् ।। भिन्नपालिस्थलशिरःसरोजलमिवाद्रवत् ॥ ७९ ॥ शिश्रियुट्चिमूमेव केचित्केचिदहो पुनः । प्राविशंश्वाशु हस्त्यश्वशवशैलमहागुहाम् ॥ ८० ॥ विपरीताम्बुवृष्टयाभैस्ततः शरभरैर्नरः । सूरजः पूरयामास रुद्धद्विदशस्त्रवमभिः ॥ ८१ ॥ आर्केः शरा द्रुमा भैमिथः संघट्टजानलाः । ज्वलन्तः प्रपतन्तोऽथ प्रकृष्टायै भियेऽभवन् ॥ ८२ ॥ पलाशनबलाधीशः संरब्धोऽथ ववर्ष सः । कपाटसंधिघण्टाभिः सर्वाभिः शस्त्रजातिभिः ॥ ८३ ॥ प्रच्छिन्नभिन्नदीर्णाङ्गक्रियासमभिहारतः । हाहेत्येव ध्वनिमयस्तदाजनि चमूचयः ।। ८४ ॥ मुहुः किलकिलारावं चक्रे दिवि सुदारुणम् । मुहुर्ननत काष्ठासु ज्वलद्रोमावलीमुखः ॥ ८५ ।। ससादि सालंकरणं हस्त्यश्वमगिलन्मुहुः । पपौ तडागतुल्याभ्यां प्रसृतिभ्यामसृङ्मुहुः ।। ८६ ॥ इति नक्तंचरो नक्तं चरन्समहरच्चमूः । दर्शनेनैव रौद्रेण मुधा पेतेऽस्त्रजातिभिः ।। ८७ ॥ स्वस्तीत्युक्त्वाथ यातेषु दिवः सिद्धसुरर्षिषु । क्षीयमाणासु सेनासु व्याकुलेषु जगत्स्वपि ॥ ८ ॥ १. 'गुहाः' ग. २. 'सादी तुरंगमातङ्गरथारोहेषु दृश्यते' इति मेदिनी. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy