________________
७द्रोणपर्व-४सर्गः]
बालभारतम् ।
निष्कम्पः कम्पयन्नोष्ठं निश्चलचालयन्भुजम् । निर्व्यथो व्यथयन्मौर्वी काण्डैः कर्णोऽपि तं प्यधात् ॥ १५ ॥ भैमेश्चक्रं सहस्रारं सहस्रांशूपहासकृत् । ज्वलद्वयोम्नि शरैः साधुसहस्रांशुसुतोऽच्छिनत् ॥ ६६ ॥ अथ ग्रुपथमाविश्य सरथः सैष पार्थभूः । हिंस्रः प्राणिसहस्राणि भूत्वा भूत्वापिषविषः ॥ १७ ॥ जज्वालोर्वी शिखिज्वालैौश्वकर्ष शिलोच्चयैः । दिशो मुञ्चराक्षसौघाद्विटमैन्ये भैमिमायया ॥ ६८ ॥ दिव्यास्त्रेणाथ तां मायां हत्वार्किः कर्कशैः शरैः । क्षिपन्राक्षसलक्षाणि दिद्युते रामविक्रमः ॥ ६९ ॥ या रुद्रेण स्वयं चक्रे सा चकैरष्टभिर्वृता । भैमिक्षिप्ताशनिः शीर्णरथमाधिरथिं व्यधात् ॥ ७० ॥ ततः कर्णशरक्षुण्णस्यन्दनः पिशिताशनः । खमुत्पपात तरसा पक्षीव क्षीणपञ्जरः ॥ ७१ ॥ मायाविनममायेन भूमिस्थेन नभःस्थितम् । प्रयुध्यमानं भीमेन पलादेन्द्रमलायुधम् ॥ ७२ ॥ बकस्य रक्षसो मित्रममित्रघ्नो घटोत्कचः । तदा प्रदारिताशाभिः क्ष्वेडाभिः संमुखं व्यधात् ॥ ७३ ॥
(युग्मम्) तादृक्प्रतिभटालाभचण्डकण्डूविखण्डिनोः। तयोर्महाप्रहारोऽभूत्कृतान्तभुजयोरिव ॥ ७४ ।। विशीर्णानि मिथोघातध्वानोमस्थयोस्तयोः।। गिरिशृङ्गाण्यपि तदा भीतानीव भुवं ययुः ॥ ७५ ॥ भैमिकृत्तमथ द्वेषिमुण्डमुज्ज्वलकुण्डलम् । दिवः पविज्वलत्पक्षद्वयो गिरिरिवापतत् ॥ ७६ ॥
१ 'व्यधातू' क-ख-ग.
Aho! Shrutgyanam