________________
१आदिपर्व-१सर्गः]
बालभारतम् ।
दैत्याः पुनस्तत्र रहो निहत्य तं दग्धमुत्पिष्य सुराविमिश्रम् । अपाययन्मां तवयार्थितोऽहमजीजिवं कुक्षिगमेव तत्तम् ॥ ९५॥ मयोपनीतां प्रतिपद्य विद्यां मत्कुक्षिमुद्भिद्य विनिर्गतोऽसौ । मां जीवयामास मयेत्यथोचे प्राप्स्यन्ति विप्रा निरयं सुरापाः ॥९६ ॥ पृष्ट्वाथ मां यातुमनाः सविद्यस्त्वं मां भजेत्युक्तवतीमतीव । स्वसासि मे त्वं गुरुकुक्षिवासान्निराचकारेति स देवयानीम् ॥ ९७ ॥ मदीहितध्वंसकृतोऽफलास्तु विद्या तवेत्युद्वचसं कचोऽमूम् । ऊचे न शापो मयि धर्मिणि स्यादास्तां तव न्यूनकुलस्तु भर्ता ॥९८॥ तच्छापतः क्षमापरतेयमासीज्ज्ञात्वेति दोषो न तवेत्युदीर्य । शर्मिष्ठया संजनितानुचर्या शुक्रो ददाति स्म ययातये ताम् ॥ ९९ ॥ क्रमाप्रसूते स्म सुतौ यदुं च सा तुर्वसुं चाथ कवेस्तनूजा । दैत्यात्मना गुप्तरता त्वसूत द्रुह्याणुपूरून्नृपतेः कुमारान् ॥ १० ॥ तदैत्यनावृत्तमवेत्य देवयानी पितुर्धाम रुषा जगाम । तत्सान्त्वनायानुगतं ययाति क्रुधा सुधाभुनिपुसूरिरूचे ॥ १०१ ॥ इमा कुमारी ददता सुरारिसुता न सेव्येति मया निषिद्धः । त्वं मूढ तारुण्यमदात्तदेव व्यधा निधानं भव तजरायाः ॥ १०२ ॥ प्रसादितः क्षमापतिनाथ शुक्रो जगौ जरां क्वापि सुते निधाय । तारुण्यशाली परिभुज्य भोगांस्तृप्तः पुनस्तां तपसे भजेथाः ॥ १०३ ॥ गतोऽथ राजा जरसश्चतुर्पु त्रस्तेषु यद्वादिषु नन्दनेषु । वितीर्णतारुण्यभरेऽथ पूरौ पौराङ्गनादृक्कुमुदेन्दुरासीत् ॥ १०४ ॥ क्ष्मापस्य शापेन ततश्चतुर्भिः सुतैरपावित्र्यमुपार्जि पूर्वैः । तद्यादवम्लेच्छशकैरिलायां ख्यातान्वयास्ते यवनैश्च जाताः ॥ १०५॥ सैंमाः सहस्रं विषयोपभोगी ततः स योगी भवितुं प्रवृत्तः । पुनर्युवानं च नृपं च चक्रे पूरुं समादाय जरां ययातिः ॥ १०६ ॥ योगाप्तागतिः पतेति हरिणा शप्तः स्वयं संस्तुव
सत्सङ्गोऽस्तु ममेति याचितवरो यज्ञप्रवीरेषु सः । १. 'प्रसौति' क. २. 'उपगतं नृपं च' ग. ३. यदुप्रभृतिषु. ४. 'समासहस्रं' क.
Aho! Shrutgyanam