________________
काव्यमाला ।
उक्तेति पित्रा वददुग्रमन्युः कन्याथ सा बाष्पजलार्द्रनेत्रा । भिक्षोः सुतासीत्यवमानितास्मि तया न तज्जीवितुमुत्सहेऽहम् ॥ ८३ ॥ इत्यङ्गजां मृत्युमुखी निरीक्ष्य रुषा सुरारिप्रभुमाह शुक्रः । त्वन्नन्दिनी केलिषु नन्दिनीं मे व्यमानयत्कि करवै भवद्भिः ॥ ८४ ॥ इत्युक्तवान्दर्पवशोऽपसर्पन्दैत्याधिपेन क्रमलग्नमूर्धा । आर्द्राकृतः स्माह स नाहमस्मि क्रुद्धः क्रुधा दीव्यति देवयानी ॥८६॥ अथ स्वपुत्रीमपराधकर्ती प्रदाय दासी दनुजेश्वरेण । प्रसादिता शुक्रसुतार्थसूतेर्दासी ममासीत्यहसीदसौ ताम् ॥ ८६ ॥ गतापरेधुर्विपिनं तदेव सा देवयानी स्मरराजधानी । तदैव तत्रोपगतं ययाति भवद्वशास्मीत्यवदन्मदान्धा ॥ ८७ ॥ लोलेक्षणे क्षत्रकुलोद्भवोऽहं महर्षिपुत्री कथमर्थये त्वाम् । तेनेथमुक्ताथ पितुः पुरस्तादार्ता स्वसंकल्पमियं जजल्प ॥ ८८॥ शुक्रोऽथ पुत्र्या नृपरागहेतुं ध्यायन्हृदि ध्यानदृशेत्यपश्यत् । यन्नाकिवर्गः समरे पुरासौ सुरारिवर्गः समरे समग्रः ॥ ८९ ॥ संजीविनी नाम नियोज्य विद्यां तज्जीवितास्ते दनुजा मयामी । बार्हस्पतीयस्तनयोऽथ विद्यां तां ज्ञातुमागादिह मां कचाख्यः ॥९०॥
(युग्मम्) ममाकरोद्वर्षसहस्रिकं स सेवाव्रतं देवपतिप्रणुन्नः । संजीविनीं लिप्सुरसावितीमं गोरक्षणस्थं दनुजा निजनुः ॥ ९१ ॥ विना कचेनैव गँवां गणेऽथ गृहाद्गणे रङ्गति सायमत्र । तत्सेवया स्नेहमयी ममेयं दुःखात्सुता मामवदत्तदेदम् ॥ ९२ ॥ तात प्रयातः सवितायमस्तं नाद्यापि नेत्रोत्सवतां कचस्तु । शङ्के विशकै निहतः स दैत्यैर्जीवामि नैवाद्य तु तं विनाहम् ॥ ९३ ॥ इत्युद्विलापां तनयां विलोक्य संजीवनीसंस्मरणात्क्षणात्तम् । अजीवयं प्रेषयति स्म चैषा वनं प्रसूनाहृतये ततस्तम् ॥ ९४ ॥ १. 'सुतार्थिसूतेः' ख-ग. २. 'तेनेदं' ख. ३. क-ख-पुस्तकयो स्ति. ४. 'गृहाङ्गणेऽथ गवाङ्गणे' क. ५. 'तदैवम्' क. ६. 'नायाति' इत्युचितः पाठः. ७. 'निरीक्ष्य' ग.
Aho! Shrutgyanam