________________
१ आदिपर्व - १ सर्गः ]
बालभारतम् ।
पुण्यं निरूप्याद्भुतभोगयोगैः प्रक्षीयमाणं क्रमतः पुराणम् । शक्रादयो दिक्पतयोऽप्रमेयश्रेयोंशलोभादविशंस्तमंशैः ॥ ७० ॥ भुवं भुजे योऽधित याचकेभ्यो दिक्कुञ्जरान्दातुमना मनखी । तदेकयुग्यं भजतां प्रभुत्वं न दिक्पतीनां कृपयाहरत्तान् ॥ ७१ ॥ अथावनीभारमुरीचकार जयातिरेकप्रवरो ययातिः । गीतं दिगन्तेषु यशो यदीयं श्रोतुं दधेऽष्टश्रुतितां विधाता ॥ ७२ ॥ सुदुस्तरन्यायपयोधिमध्यविलासतस्तुच्छभरां भृशं यः । मृणालिनीनालनिभेऽपि बाहौ सुखेन भूमिं बिभरांबभूव ॥ ७३ ॥ यत्साम्यचिन्ताभिरभूनिमेषोन्मेषोर्मिशून्यं नयनं सुराणाम् । यच्छक्तिहीनै रहिभिर्मुखात्तविषैर्मृतं नामृतमारुतार्थैः ॥ ७४ ॥ गीतानि चिन्तामणिकामधेनुकल्पद्रुमाणामधिदेवताभिः । शृण्वन्ति सिद्धाचलसंधिरन्यैर्बलिस्त्रियो दानयशांसि यस्य ॥ ७५ ॥ वनं मृगव्याय गतः स भूपः कूपं जलार्थी कमपि प्रपन्नः । तंत्राप तोये पतितां नताङ्गीमालोक्य कासीति जगाद कांचित् ॥७६॥ ऊचे नृदेवं प्रति सापि देवयानीति देवारिगुरोः सुताहम् । शर्मिष्ठया श्रीवृषपर्वदैत्यपुत्र्या वनेऽस्मिन्नुदितास्मि रन्तुम् ॥ ७७ ॥ अस्माकमाकस्मिकतः समीर विवर्ततश्वीरविपर्ययोऽभूत् । तदा तदर्थं प्रथिते मिथोऽपि वादे विदुष्टा दनुजेन्द्रपुत्री ॥ ७८ ॥ त्वं पुत्रिका मत्पितृयाचकस्य मूढाशये मामवमन्यसे हा । इत्थं सखीलक्षसमक्षमुक्त्वा कोपेन कूपेऽक्षिपदत्र सा माम् ॥ ७९ ॥ युग्मम्) इत्युक्तिपतेः श्रवणाध्वगायाः ससंभ्रमाभ्युत्थितमानसस्ताम् । पातालकन्यामिव कान्तिधन्या मिलाविलासी स चकर्ष कूपात् ॥ ८० ॥ गत्वा गृहं साथ पितुः पुरस्तान्यवेदयदुःखवृता स्ववृत्तम् । शुक्रोऽवदन्मे दनुजैर्विरोधं केतु तदेन्द्रः पवनत्वमाप ॥ ८१ ॥ तत्पुत्रि मा पूरय वैरिवारमनोरथं वारय रोषदोषम् ।
रोषः शिशूनां हि सखित्वभाजां रेखेव सौजन्यजले क्षणं स्यात् ॥ ८२ ॥
१. 'तत्रापि' ख. २. 'विलोक्य' क. ३. 'वादेऽतिदुष्टा' ग. ४. 'भृता क. ५० 'दातुं' क-ख.
Aho ! Shrutgyanam