________________
काव्यमाला।
प्रविश्य यं दिक्पतयोऽष्ट यद्दोश्छायामधो विश्वविभुः प्रपद्य । नभोमणियन्महसः सुहृत्त्वमाश्रित्य याति स्म सुखं दिशः स्वाः ॥१८॥ अतीव बाह्यारिगणादुदग्रान्वदन्ति युक्तं मुनयोऽन्तरारीन् । चिराय मात्राधिकशास्त्रयोगादृशं यतोऽनेन विजिग्यिरेऽमी ॥ ५९॥ पातालवैतालिकवृन्ददत्तां बलिः समाकर्ण्य विलोलमौलिः । विलज्जमानोऽद्भुतदानशक्तेर्यस्योपमामात्मनि किं न्यषेधत् ॥ ६ ॥ व्यधाद्दयालुः सुरशाखिरत्नगवीषु काष्ठाश्मपशुत्वमीशः । ह्रिया न दीर्ण यदमूभिरुच्चैनिशम्य यद्दानममर्त्यगीतैः ॥ ६१ ॥ न चक्षुषारज्यत नाधरेण व्यकम्पि भालेन च नो विचक्रे । रागास्पदस्याप्यमितेङ्गितस्य प्रियाभिषङ्गेऽपि रणेऽपि यस्य ॥ ६२॥ रेमे स धर्मैकधुरंधरोऽपि पत्न्यां धरोद्धारकृते सुताय । पूतो जनः शंकरपूजनाय न पङ्कजार्थ किमु पङ्कमेति ॥ ६३ ॥ खर्भानवीशः क्षितिपस्ततोऽरिपयोमुचां वायुरिवायुरासीत् । विनिर्मिता निर्मलशास्त्रकोटिमहारहस्यैरिव यस्य बुद्धिः॥ ६४ ॥ युवा विनिद्रः खलु मोहनिद्रां कुतूहलेनाभिनयञ्शनैर्यः । दृढाङ्गबन्धेन नवोढयापि सुस्निग्धयालिङ्गयत राजलक्ष्म्या ॥ ६५ ।। हर्षोल्लसल्लोलविलोचनश्रीविलोकने चन्द्रमुखीमुखस्य । यश्चन्द्रचूडस्मरणप्रनष्टस्मरो न रोद्धं व्यसनेन शक्यः ॥ ६६ ॥ धाम्नैव कामं दहतो विपक्षांलक्ष्मैव तस्याजनि खण्डदण्डः । ज्वालोज्ज्वलस्य ज्वलतोऽनलस्य दग्धव्यदाहाय न धूमलेखा ॥ ६७ ॥ अभूद्भुवोऽपि प्रियवाससोऽपि प्रियः सुतः श्रीनहुषो नरेन्द्रः । द्विषां यदीयाङ्गिनखा नतानां नृपत्वदीक्षामुकुटत्वमीयुः ॥ ६८ ॥ यद्दानगानव्यसनैकतानस्वर्भीरुभावाश्रुजलौघयोगात् । शङ्के पशुप्रस्तरपादपानामप्यद्भुताभूदिवि दानबुद्धिः ॥ ६९॥ १. 'दिक्पालक' ख. २. 'पत्नी' क. ३. 'स्वर्भानवीशः' ग. ४. 'आविरासीत्' ख-ग. आयुरिति नृपस्य नाम. ५. 'वासवोऽपि' ख. ६. 'ततः' ख.७. 'श्रीनघुषो' क. ८. 'यदीयांहि' क-ख.
Aho! Shrutgyanam