________________
१आदिपर्व-१सर्गः]
बालभारतम् ।
तयानुरागमयमानलज्जातिर्यग्वलत्कण्ठचलदृशैव । वीक्षागुणेनेव निबध्य कृष्टः समीपमाप द्रुतमग्रतोऽसौ ॥ ४६ ॥ त्वमुत्तमे कासि विकासिशक्तिस्मरत्रिलोकीजयवैजयन्ती । कुतः समेतासि च लोलदृष्ट कृष्टेव मन्नेत्रयुगस्य भाग्यैः ॥ ४७ ॥ इति स्मरामोदवितन्द्रवाचि चन्द्रात्मजे मन्द्रमुवाच सा च । सदा सुधापानरसां रसज्ञामस्य श्रुतिभ्यां परिहासयन्ती ॥४८॥ (युग्मम्) सहाग्रजैर्बन्धुभिरुज्जगाम मनोर्महायज्ञकृशानुकुण्डात् । इडाख्ययास्मिन्गहनेऽभ्युपेत्य त्वां वीक्ष्य मन्ये सफलं खजन्म ॥ ४९॥ श्रुत्वेति शीतांशुसुतोऽप्युवाच वाचं स्मितस्नानविशुद्धवर्णाम् । तदाननद्योतसुधोर्मिपानात्सद्यः कृतोद्गारभराभिरामाम् ॥ ५० ॥ सुधामयीमाहुतिमाप्य शैत्यं स्तम्भं च भेजे शिखिनः शिखैव । इति युति यद्भवती दधाति स्थिरस्फुरद्धूमलताभवेणि ॥ ५१ ॥ त्वमुग्रदीप्तेर्दहनस्य पुत्री पुत्रोऽहमिन्दोस्तुहिनैकमूतेः । इति द्रुतं नौ ददतां समत्वं मिथः परीरम्भमहौषधानि ॥ १२ ॥ इत्थं मिथो जातकथाप्रथाभिः स्थिरीकृतप्रेमरसैकचित्तौ। . चिराय चिक्रीडतुरङ्गरगदनङ्गशृङ्गारितसंगती तौ ।। ५३ ॥ अथाभवच्चन्द्रकुलाधिराजः पुरूरवा नाम तयोस्तनूजः । यशःश्रियां धाम महामहस्वी मुनीश्वराणामपि माननीयः ॥ १४ ॥ कृष्णेऽप्यतृष्णा मदनेऽप्यदीना रामेऽप्यकामा कमनीयकान्तिः । दोःक्रीतचित्ताभवदुर्वशीति नृपस्य तस्याप्सरसः कलत्रम् ॥ ५५ ॥ अहीन्महीभृद्विवराध्वपातात्पातालयातै रिपुवक्रवातैः । यज्ञैः सुरानाज्यनयैर्मनुष्यान्पुष्यन्दधौ यस्त्रिजगत्पतित्वम् ॥ १६ ॥ तुल्येषु को गेय इतीशविष्णुपोकसां संसदि संशयानाः । वाक्पाणिवीणार्पितमस्य गीतं जगुस्त्रयस्यापि निजं हयास्याः ॥ १७ ॥ १. 'विकाश' क. २. सुधातोऽपि तस्या वाणी मधुरेति भावः. ३. 'वेणी' क, 'वेणिः' ग. ४. 'रिङ्गदनङ्ग' ग. ५. 'ऽप्यरामा' क. ६. प्रथमाबहुवचनम्. ७. 'वीणार्थित' ग.
Aho! Shrutgyanam