________________
काव्यमाला।
हरत्सु दैत्येषु विधिः किमस्याः सर्गे दधौ मुष्टिबलेन मध्यम् । ततो नितम्बस्तनवृद्धिहेतुच्युतोत्थितद्रव्यमिदं कशीयः ॥ ३३ ॥ किं रोमराजी यमुनातटेऽस्या वलित्रिदण्डी कलयन्ननङ्गः । कस्यापि रूपेण जितस्तपस्वी तमेव जेतुं तनुते तपांसि ॥ ३४ ।। अस्या ध्रुवं नाभिह्रदे पपात मरो हरक्रोधकृशानुतप्तः । रोमावली भाति तदत्र मूर्तोद्वत्तेव शृङ्गाररसस्य धारा ॥ ३५ ॥ अभ्यस्य शश्वज्जघने घनेऽस्याः सौभाग्यसिन्धोः पुलिने पुलिन्दः । वेध्यं शराणां कुरुते न कस्य चलं च सूक्ष्मं च मनो मनोभूः ॥ ३६॥ विधातुमेतां खलु सज्जयित्वा लावण्यलेपं प्रचुरं विरश्चिः । नितम्बबिम्बे कृशचारुमूर्तिनिर्माणशेषं न्यदधादशेषम् ॥ ३७ ॥ ऊरुद्वयस्य द्विपहस्तजेतुर्भवेद्भुवं स्थौल्यमतोऽपि तुष्टया । यद्येतदस्याः करभावभीक्ष्णं साम्येन हीनावपि न स्पृशेताम् ॥ ३८ ॥ जङ्घाद्वयं यौवनकामदेवलजयस्तम्भयुगानुकारम् । अस्या विभात्युन्मुखसंमुखीननखप्रतिच्छन्दयशःप्रशस्तिः ॥ ३९ ॥ अङ्गैरधः क्षिप्तमिदं समग्रैर्नखावलिव्याजधृताक्षमालम् । मन्त्राञ्जपत्यम्बुजबुद्धिलोलरोलम्बनादैः पदयुग्ममस्याः ॥ ४० ॥ सेवागताभिर्दशदिक्पतीनां कान्ताभिरङ्गद्युतिनिजिताभिः । अस्याः पदद्वन्द्वमपूनि चूडारत्नैर्नखश्रेणिमिषेण मन्ये ॥ ४१ ॥ विनिर्जितोऽस्या गतिविभ्रमेण रोषादिवारक्तमुखो मरालः । दुःखादिवेभः शितिकान्तिरेतत्क्रमभ्रमान्मर्दयतेऽम्बुजानि ॥ ४२ ॥ इदं हृदन्तःस्मरतः स्मरैकरसस्य तस्यापि पतन्मुखेन्दौ । लीलावनीकेलिचलोऽप्यलोलस्तन्नेत्रसारङ्गशिशुर्बभासे ॥ ४३ ॥ प्रवेशयन्तौ हृदयं हृदैव दृग्भ्यां दृशावेव मिथः पिबन्तौ । स्नातौ महानन्दरसोमिपूरैः स्थितौ चिरं तावथ भावभिन्नौ ॥ ४४ ॥ अथो मिथोऽपि प्रथमानुरागभृतोस्तयोरीक्षणमात्रतोऽपि । तदात्वजातत्रपमेणनेत्रा चक्षुर्वलत्कण्ठमितश्चकर्ष ॥ ४५ ॥ १. 'मूतौ वृत्तेव' क. २. 'मूर्तेः' क. ३. 'व्यदधात्' ख. ४. 'चलज्जय' ग, ५. क्रमशब्दश्चरणवाचकः. ६. 'हृदीव' क. ७. 'पूरे' क. ८. 'चलत्' ग.
पा
।
Aho! Shrutgyanam