________________
१आदिपर्व-सर्गः
बालभारतम् ।
३
भ्रूवल्लिरस्या हृदयालयस्य द्वारायमाणे नयनद्वयेऽस्मिन् । कस्यापि धन्यस्य नवप्रवेशे नन्दत्यसौ वन्दनमालिकेव ॥ २१ ॥ उत्तंसितं भाति मुखप्रभासु न किंचिदलं यदहो तदस्याः । युक्तं दृशावेव विधिविधिज्ञः कर्णद्वयालंकरणं चकार ॥ २२ ॥ माहग्गेणद्वयबन्धनाय पाशद्वयं कर्णमिषादमुष्याः । दृग्दम्भविश्रम्भमृगोपसेव्यं सज्जीकृतं मन्मथयौवनाभ्याम् ॥ २३ ॥ कपोलयोरिन्दुजितोरमुष्याः प्रसर्पतोरेव मिथो जयाय । स्वयं स्वयंभूः कृतरोधमन्तळधत्त नासामिह मध्यदण्डम् ॥ २४ ॥ मुखेन्दुपीतेन्दुयशःप्रवाहप्रसृत्वरोद्गारनिभा विभाति ।
अस्याः स्मितश्री रसनाग्रदोलाविलोलवाणीवसनान्तकान्ता ॥ २५ ॥ मुखेन्दुना दीधितिधोरणोनामाधिक्यतोऽस्या गलहस्तितोऽपि । श्वासातिसौरभ्यचरविरेफच्छलात्किलाङ्को न विमुञ्चतेऽग्रम् ॥ २६ ॥ अस्या विभाति मितरश्मिपूरश्लिष्टोऽधरः पाटलतापटीयान् । अन्तर्मनोभूरसदुग्धसिन्धुवीचीमुखप्रेलितविद्रुमाभः ॥ २७ ॥ अस्याः स्मितैः सूक्तसुधानिधानजिह्वाग्रनिःस्यन्दनिभैः समन्तात् । सिक्तोऽधरः प्रोप्नुत माधुरी यां तां वेत्तु कः स्वादुरसेन धन्यः ॥ २८ ॥ मुदं ददाति त्रिजगज्जयाय प्रयाणशङ्खो मकरध्वजस्य । कण्ठोऽयमस्या मृदुमध्यतारस्वरत्रयाधार इति त्रिरेखः ॥ २९ ॥ अनन्यलावण्यभरातिपूर्णकपोलनिःस्यन्दकदम्बकाभ्याम् । रसातिशैत्यस्तबकीकृताभ्यामिव स्तनाभ्यां हृदि दीप्यतेऽसौ ॥ ३० ॥ अस्याः स्फुरत्कान्तकपोलकान्तिसरित्प्रवाहाकृति बाहुयुग्मम् । अन्योन्यसंभेदि ददातु हर्षमाकण्ठमन्तः पतिताय कस्मै ॥ ३१ ॥ कराविमौ चालयता नखाचिच्छटार्चितौ चामरवत्किलेयम् । दष्टेऽधरे धन्यतमस्य कस्य गतस्य शृङ्गारिषु राज्यलक्ष्मीम् ॥ ३२ ॥ १ 'मुखप्रभाभिः' ख. २. 'तादृग्' ग. ३. 'साम्यदण्डम्' क-ग. ४. 'चलद्विरेफ' ख. ५. 'प्राप्यत' क-ख. ६. 'सौख्यं क. ७. 'अचिःशब्द इकारान्तोऽपि' इति ग-पुस्तकटिप्पणम्.
Aho! Shrutgyanam