________________
काव्यमाला।
दौहित्रेषु पतञ्छिविप्रभृतिषु ख्यातस्ववृत्तो दिवे
तद्दत्तं सुकृतं तु नादित ततः सत्त्वात्पुनः स्वर्ग्यभूत् ॥ १०७ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के आदिपर्वण्यादिवंशावतरणे पुरूरवप्रभृतिराजचतुष्टयवर्णनो नाम प्रथमः सर्गः।
द्वितीयः सर्गः । द्वैपायनः पातु जगन्ति दूरमुद्यत्पुराणामृतबिन्दुवृन्दः । यन्मानसज्ञानसुधासमुद्रे वाग्देवताया जलकेलिरासीत् ॥ १ ॥ कौशल्यया वल्लभया सहाथ भुवं भुनक्ति म स पूरुभूपः । द्विषो यदीयासिनदीरयाभिमुखाधिरोहेनिमिषा बभूवुः ॥ २ ॥ भुजावहंपूर्विकया प्रवेष्टुं मुखैकमार्गादुदरे दरेण । दन्ताङ्गुलिग्राहमिषादरीणां पराङ्मुखौ वीक्ष्य शमं ययौ यः ॥ ३ ॥ चकार निर्विघ्नचिकीर्षितस्य यत्तेजसो द्रव्यलवेन वेधाः । महेशितुर्य तिलकं तमेव भालस्पृशं वदिशं दिशन्ति ॥ ४ ॥ यं शङ्कया प्राप कयापि कम्पं रते स धर्मज्ञमतेऽपि वीरः । अस्त्रेषु तेनापि वधूविलासान्मूढः स्मरः स्मार्चति वीरमानी ॥५॥ भूपोऽथ जज्ञे जनमेजयाख्योऽनन्तापतिर्मण्डलितं यदस्त्रम् । दधौ मुखेन्दोः परिवेषभावं युधीषुधाराद्भुतवृष्टिहेतुम् ॥ ६ ॥ प्रतापदग्धाखिलकण्टकायां यशोजलैः शान्तिमुपागतायाम् । लघूभवद्भूभृति सैन्यनागैः क्षितौ यदाज्ञा सुखिनी चचार ॥ ७ ॥ संहारशक्तिं यदसेनिशम्य कृतान्तजिह्वाञ्चलतो हरेण । न कम्पितो यः किल कालकूटग्रासेऽपि स स्वैरमकम्पि मूर्धा ॥ ८॥ लोभेन केनापि नितम्बिनीषु रक्तास्वरक्तोऽपि रसीव खेलन् । यं दोषमाहुर्गणिकासु धीराः स्वसिन्नसौ तं गुणतां निनाय ॥ ९ ॥ तुरंगमेधत्रितयस्य कर्ता त्रिनेत्रसेवारसिकोऽन्वहं यः । जगत्रयख्यातनयस्त्रिमार्गात्रयीतनुस्पर्धियशःप्रतापः ॥ १० ॥ १. 'दिवि' ग, २. 'वृन्दा' ग. ३. 'यन्मानसें क. ४. 'कौसल्यया' ख. ५. मत्स्या देवाश्च. ६. 'पास' ग. ७. 'भवत्रय' ख. ८. 'ख्यातिमयः' क-ग.
Aho! Shrutgyanam