________________
७ द्रोणपर्व - ४ सर्गः ]
बालभारतम् ।
ततो विघटितव्यूहा बभ्राम कुरुवाहिनी । सर्वदिग्दीप्तिदावाग्निवनद्विपघटेव सा ॥ २१४ ॥ ततः किरीटी विकृपः कृपं च कृपीसुतं च त्वरया निरस्य । मुखैर्महाभल्लधुतैर्नृपाणामानर्च संध्यामिव पङ्कजौवैः ॥ २१९ ॥ दारुक प्रगुणितं रथं हरेः सात्यकिः समधिरुह्य कर्णजित् । काण्डखण्डितनृपव्रजोत्थितैः सांध्यधाम रुधिरैरवर्धयत् ॥ २१६ ॥ भीमापमान कुपितः पुरतोऽङ्गभर्तुः
संधां विधाय वृषसेनवधाय पार्थः ।
सर्वैः समं समरनित्यजयी जगाम
प्रीतिप्रणामकृतये सुकृतात्मजस्य ॥ २१७ ॥ अग्रेर्नृपं पुलकिनोऽथ रणप्रशंसां
चक्रुर्मिथः पवनसत्यकशक्रपुत्राः । कृष्णौ तु संमदपरः परिरभ्य वीरौ
भूपो नुनाव हरिमेव जयस्य हेतुम् ॥ २९८ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते बालभारते नाम्नि महाकाव्ये वीराङ्के द्रोणपर्वणि चतुर्थ दिने जयद्रथवधो नाम तृतीयः सर्गः ।
चतुर्थः सर्गः ।
केशान्तर्भूतजीमूतविद्युद्दीयैव पिअरम् । जटाजूटं वहन्व्यासः पायादवतरो हरेः ॥ १ ॥ अथ जयद्रथो भेजे भवदत्ताभयः क्षयम् । इत्यूचे कौरवस्तूर्णमर्णः पूर्णेक्षणो गुरुम् ॥ २ ॥ अथ रुक्मरथः स्माह संनाहंनाहमाहवे ।
३५९
अद्य त्यजामि यामिन्यामप्यहत्वा तवाहितान् ॥ ३ ॥ एवमुक्तवति द्रोणे रोषशोणेक्षणाः क्षणात् । अस्तेऽपि सूरे शूरेन्द्रा युद्धायैव दधाविरे ॥ ४ ॥
१.
'नृपस्य पुलकेन' ग. क ख - पुस्तकयोस्तु 'अग्रे' इत्यस्य विभक्तिप्रतिरूपकाव्ययत्वमङ्गीकृत्याव्ययीभावः कृत इति प्रतिभाति.
Aho ! Shrutgyanam