________________
३५८
काव्यमाला।
सिन्धुभर्तरि रवौ च भूभुजां मण्डले च मुहुरुत्सुकं पतत् । जिष्णुनेत्रनलिनं तदा श्रियावस्तुमै हि वलयातिचञ्चलम् ॥ २०५ ॥ विष्णुस्तदा ग्रुपतिसूनुमुवाच वृद्ध
क्षत्रो मुनिर्ननु पितास्ति जयद्रथस्य । प्रीतः स पुत्रममुमाह शिरः क्षितौ ते
यः पातयिष्यति पतिष्यति तस्य तुल्यम् ॥ २०६ ॥ ध्यात्वेति पातय शिरोऽस्य जयद्रथस्य
क्रोडे पितुः सुतपसः कुरुवर्षसीम्नि । तस्मादिदं क्षितिमुपैतु यथा सवृद्ध
क्षत्रो न शापमपि यच्छति ते विमौलिः ॥ २०७ ॥ इति ध्यायन्क्रोधानलबहुलकीलासिसदृशा
दृशा पश्यन्प्लुष्यन्निव दिवसभङ्गे रिपुवपुः । नरो धावन्धन्वी नृप कृपकृपीभूवृषमुखै.
द्विषद्भिः प्रेङ्खद्भिः क्षणमविकलैरस्खलि बली ॥ २०८ ॥ क्षिप्रं क्षुरप्रप्रकरेण कृत्वा तान्सन्नसंनाहमहास्त्रवाहान् । क्षिपन्मुखानि क्षितिपजानां धनंजयः सैन्धवमभ्यधावत् ॥ २०९ ॥ ध्यात्वाथ वीरो निधनं मृधेन क्रुद्धोद्धुरः सिन्धुधराधिराजः । पौरंदरिं रोषपरम्पराभिरपूरयन्मुक्तिपुरीपरीप्सुः ॥ २१० ॥
अथो पृथासुतस्तस्य शिरो दिव्यशरोद्धृतम् । संध्यां ध्यातुरविज्ञातमङ्के पितुरपातयत् ॥ २११ ॥ किमेतदिति तन्मङ्क क्षितौ सुतशिरः क्षिपन् । वृद्धक्षत्रोऽप्यमूर्धाभूत्ववरेणैव दैवतः ॥ २१२ ॥ इति समिति निहत्याक्षोहिणीः सप्त सिन्धु
क्षितिभृति निहतेऽस्मिन्वल्गिना फाल्गुनेन । मदपरिमलचारुर्मारुतिर्यान्निनादा
नकृत सुकृतजस्तानग्रहीद्वाद्यवृन्दैः ॥ २१३ ॥ १. 'प्रजानां क.
Aho! Shrutgyanam