________________
७द्रोणपर्व-३सर्गः] बालभारतम् ।
३५७ स वणत्कङ्कणो मुक्त्वा मुद्रिकादन्ति दीप्तिभिः । हसन्विवेकं पार्थस्य पपात भुवि तद्भुनः ॥ १९२ ॥ च्युतेऽथ वाहौ सत्कर्मः सहाये सोमदत्तजः । पार्थ प्रोवाच भग्नेच्छो मुक्तसात्यकिमूर्धजः ॥ १९३ ॥ दर्शितं कूटयुद्धादि पुंसो मैत्र्यफलं हरेः। त्वयाद्य छिन्दतैवान्यरणसक्तस्य मे भुजः ॥ १९४ ॥ इत्युक्त्वा विरचय्येषु शय्यां वामकरेण सः । प्रायोपविष्टोऽविष्टोऽन्तः समं स्पर्शादि वृत्तिभिः ॥ १९५ ॥ प्राणान्प्राणानले तस्य जुह्वतो मूर्ध्नि निर्ययौ।। किंचित्कान्तिः शिखा धूमस्तोमयन्ती नभस्तलम् ॥ १९६ ॥ अथोचे निन्दतः मापान्पार्थः किं कृत्यमस्त्रिणाम् । रक्षन्ति वैरिवैषम्ये मजन्तं स्वजनं न चेत् ॥ १९७ ॥ प्राणतुल्यसुहृद्रक्षाकारिणं किमु निन्दथः । सन्तो मूर्छितसौभद्रमृत्यूद्यत्पत्रिणोऽपि माम् ॥ १९८ ॥ इदं वदति कौन्तेये लब्धसंज्ञः शिनेः सुतः ।। अपरिज्ञातवृत्तान्तः कोपोद्धान्तस्त्वरोत्थितः ॥ १९९ ॥ कृष्णाभ्यां वार्यमाणोऽपि द्युता हसदिवाभितः ।
अच्छिनद्भूरिदत्तस्य प्रागुत्क्रान्तात्मनो मुखम् ॥ २०० ।। (युग्मम् ) आनिशागममथो जयद्रथं रक्षितुं क्षितिभृतः कृतोद्यमाः । अर्जुनेन निहताः पतिं द्युतां तूर्णमस्तनयनाय विव्यधुः ।। २०१ ॥ अम्बरे किमु विलम्बते न किं तूर्णमस्तमभियात्यसाविति । रोषरक्तनयनैरिवेक्षितः कौरवै रविरभूत्तदारुणः ॥ २०२ ॥ आदिगन्तपरिपातिभिस्तदा रुद्धमार्गमिव फाल्गुनेषुभिः । अम्बरान्तगतमप्यहो क्षणं बिम्बमम्बरमणेळलम्बत ॥ २०३ ॥ भाति सर्वजगतामपीक्षणं भूषणं च सुकृतक्षणस्य यः । अस्तमद्भुतरुचोऽपि तस्य हा स्वार्थकाङ्गिभिरकाङ्क्षि कौरवैः ॥२०४ ॥ १. 'वैरवैषम्ये ख; 'वैरे वैषम्ये' ग. २. द्य' ख. ३. वृत्तान्त' ख. ४. 'क्षणश्च' क-ग.
Aho! Shrutgyanam