________________
३१६
काव्यमाला |
उद्गर्जितौ विविधरत्नविचित्रचापौ चञ्चत्तडित्तरलकाञ्चनकाण्डपातौ । ऐकाब्धिनीररसनप्रसरद्विरोधौ
धाराधराविव जवादभिजग्मतुस्तौ ॥ १८४ ॥
दोः शालिनां मृधमिथः शिथिलादराणां तेजोमयान्यरुणितानि मनांसि नूनम् ।
अस्त्रौघघट्टजघनाग्निकणच्छलेन
पेतुस्तयोरुपरि कौतुकतश्चलानि ॥ १८९ ॥ धियां विभग्नविभुवाञ्छितमद्य धिग्धिग्दिक्चक्रवालविदितं मम शायकत्वम् । यच्छायितो न रिपुरित्यविशद्धियेव
भूमिं शरव्यसफलोऽपि तयोः शरौघः ॥ ९८६ ॥ अन्योन्यवाणततिपातितसूतसप्तिधन्वध्वज कलितकाञ्चनवर्मखौ |
-
क्षेत्रे प्रचेलतुरथोग्रनिजप्रताप
द्विड्दुर्यशोविटपिबीजकराविवैतौ ॥ १८७ ॥ क्ष्वेडाभिः खड्गखाद्वा(टूका)रैः स्फुलिङ्गैर्गतिभङ्गिभिः । स्फुरद्धर्घरघोषैश्च तौ जातौ प्रेक्षणक्षणौ ॥ १८८ ॥ अथाकृष्य कचैर्हत्वा हृदि पातेन सात्यकिम् । सौमदत्तिः प्रपात्यैच्छच्छिरश्छेत्तुं महासिना ॥ १८९ ॥ तदाचष्ट हरिः पार्थे शिष्यस्ते पश्य सात्यकिः । जगज्जेतापि धिग्दैवात्सौमदत्तिवशं गतः ॥ १९० ॥ श्रुत्वेति पत्रिणा पार्थः सासिं भूरिश्रवो भुजम् । चिच्छेद धाताभिमुखं ताक्ष्णेवाहिमुत्कणम् ॥ १९१ ॥
१. 'चक्राब्धि' ग. २. 'चर्म' ख ग ३. 'खड्गारै: ' क- ग. ४. 'प्रेक्षणं क्षणम्' क-ख. ५. 'रुत्फणी' ग. अस्मिन्पाठे व्यत्यासेन क्रियान्वयः 'ताण' इति तृतीया करणे निर्वाह्या:
क ख पुस्तकपाठे
Aho ! Shrutgyanam