________________
३६०
काव्यमाला ।
निशाचराणां तमसां भियेव दिवसस्तदा । रक्षोविपक्षं शिश्राय कैपिकान्त्या जयिध्वजम् ॥ ५ ॥ हता द्रोण द्रेणानादैः पलादाः प्रधनोत्सवे । किरीटिकेतनकपेर्बत्कारैर्दूरमसन् ॥ ६ ॥ हनुमत्ताबूत्कारप्रतिशब्द इवोद्भुतः । भीमास्यकन्दरान्नादस्तदाभूदरिकम्पनः ॥ ७ ॥ ततो युयुधिरे वीरा रुधिरेण परिप्लुताः । निर्नायै रुचिनाथस्य रुचिपूरैरिवाश्रिताः ॥ ८ ॥ तदोच्छद्भिर्वीराणां बाणैर्विद्धमिवाम्बरम् | तारकच्छद्मना छिद्रपूरितं परितोऽप्यभूत् ॥ ९ ॥ तदाच्छादितभूवक्रतमः समुदयच्छलात् । क्रुध्यद्भटेन्द्रक्ष्वेडाभिस्त्रुटित्वेवापतन्नभः ॥ १० ॥ अथ द्रोणशरोत्क्षिप्तैः शिविमुख्यनृपाननैः । क्व गतोऽर्क इति ज्ञातुमजैरिव गतं दिवि ॥ ११ ॥ सामीरिमुष्टि पिष्टाङ्गकलिङ्गक्ष्माभृदङ्गजात् । शुभ्राण्यस्थीनि भोक्तव्यपुण्यानीवाभितोऽपतत् ॥ १२ ॥ कालवैतालिककुते व्यञ्जनानीव कुर्वता । चक्रे विराटसूदेन कलिङ्गकुलकर्तनम् ॥ १३ ॥ जयरातध्रुवौ वीरौ तेजस्तारौ व्यपातयत् । भीमः कुहूनिशारम्भ इवार्करजनीकरौ ॥ १४ ॥ निरन्तरालं पिहिते कर्णे सामी रिसायकैः । अन्तः कौरववाहिन्याः कोऽप्यभूदद्भुतः स्वनः ॥ १५॥ हसन्बलिद्विषं भीमस्तदा दुःकर्ण दुर्मदौ । त्वत्सुतौ सरथौ राजन्पदा हत्वाक्षिपत्तिौ ॥ १६ ॥
१. 'कम्प' क; 'काय' ग. २. 'ध्वजा ख. ३. 'गुणं चापकृपाणयोः' इति हैम:. ४. 'बूत्कारैः' ख. ५. ‘पिष्टाङ्गात् ' ख.
Aho ! Shrutgyanam