________________
३५२
काव्यमाला।
सामीरिणा संयति भज्यमानं विभज्यमानं यमदासवृन्दैः । बलं तदालोक्य नृलोकमस्त्रमयं वितन्वन्प्रेचचार कर्णः ॥ १३७ ॥ मिथः प्रमाथाकुलयोस्तदाभूत्कौन्तेययोः कश्चन काण्डपातः । यद्वातजातप्रसरैरिवासीत्सुरासुराणामपि मौलिकम्पः ॥ १३८ ॥ भीमेन भग्नप्रसरः शरौघैः कर्णस्तदा दीर्णरथायुधौधः । त्रस्तोऽपि वैरादिव रहसैव तदीयतातं जयति स वातम् ॥ १३९ ॥
मलानाननः कृपीकान्तं तदागत्य नृपोऽभ्यधात् । प्रियोऽर्जुनस्ते यन्मुक्तौ तस्मै सात्यकिमारुती ॥ १४० ॥ अहो नु मन्दभाग्यानां सामर्थ्य किंचिदद्भुतम् । येनापि वज्रदुर्भेदा त्वत्प्रतिज्ञा श्लथीकृता ॥ १४१ ॥ ऊचे गुरुर्गुरुतरां किं युध्येयं चमूमिमाम् । किंवा तौ बाणपातौघचलाचलकुलाचलौ ॥ १४२ ॥ एकोऽपि वीर याम्येष सप्ताप्यद्य चमूरमूः । एकादशचमूवीरैस्त्वं निवारय तत्रयम् ॥ १४३ ॥ इत्युक्त्वा गुरुणा गत्वा द्रुपदो-शनन्दनौ । पार्थिवौ विरथी चक्रे शक्रभूचक्ररक्षकौ ॥ १४४ ॥ इहान्तरे महाशौर्यः सूर्यसूनुरतापयत् । भीमं हैमैः शरवातैः पितुरात्तैः करैरिव ॥ १४५॥ भीमास्त्रैः कर्कशैरर्कसूनुलूनरथायुधः । नश्यन्नं हिरजोव्याजात्तेनेऽभ्रव्यापि दुर्यशः ॥ १४६ ॥ भीमे भूपालमालाया मौलिजालानि कृन्तति । सुराणामप्यहो शीर्षेः कम्पितं चकितैरिव ॥ १४७ ॥ पुनरप्याययौ सज्जस्यन्दनः सूर्यनन्दनः ।
भीमं हैमशरैः कुर्वन्हेमवल्लीवनोपमम् ॥ १४८ ॥ १. 'प्रचचाल' ग. २. 'मानम्लानः' क; 'म्लानमानः' ख. ३. अनुदात्तत्वलक्षणात्मनेपदस्यानित्यत्वात्क्यजन्तत्वाद्वा परस्मैपदम्. ४. 'किं च नौ बाणवातौघ' क. ५. 'इत्युक्तो' ग. ६. 'पातयन् क. ७. 'दुर्दशः' क. ८. 'मालानां' ख.
Aho! Shrutgyanam