________________
७ द्रोणपर्व - ३ सर्गः ]
बालभारतम् ।
छैन्ने बाणगणैव्यनि द्रष्टुं तत्र रणं तयोः । देवा इवाययुः पश्यदनिमेषभटच्छलात् ॥ १४९ ॥ कौन्तेये कर्णकोदण्डरथप्लोषानले तदा । दुर्जयाख्यस्तव सुतो राजन्भेजे पतङ्गताम् ॥ १५० ॥ भीमेन भुवनक्षोभशोभमानशरोत्करः । गदया विरथीच पुनराधि रथी रथी ॥ १११ ॥ तदा त्वदङ्गजो राजन्धावन्भीमेन निर्ममे । प्रेमथः स्वर्गसुमुखीमुखपद्मशिलीमुखः ॥ १५२ ॥ आरुह्य प्रेमथरथं ततोऽधिरथभूः शरान् । यान्भीमस्य हृदि न्यास तैस्तत्कोपानलोऽज्वलत् ॥ १५३ ॥ ततो दृष्ट्वा प्रविष्टेषु श्वभ्रं भीमेषु भोगिषु । कर्णो गुल्मं नरेन्द्राणां रथेन जैविनाविशत् ॥ १५४ ॥ तान्दुर्मपणदुर्ग्राहजयद्दुःशलर्दुःसहान् ।
जघान त्वत्सुतान्पञ्च भीमः सत्याभिधस्तदा ॥ १५५ ॥ रङ्गन्तं पुनरङ्गेशं कृत्वा कृत्तरथायुधम् । भीमे नदति भक्त्येव भियालोटि भटैर्भुवि ॥ १५६ ॥ सप्ताथ त्वत्सुतश्चित्रश्चित्रवाणः शरासनः । चारुचित्रकचित्राक्षौ चित्रवर्मोपचित्रकौ ॥ १५७ ॥ कर्णत्राणधियो भीमबाणपातनिपातिताः ।
३१३
युधि स्वपुत्रं पाहीति वक्तुं शङ्केऽर्कमत्रजन् ॥ ११८ ॥ ( युग्मम् ) मुहुर्जितोऽपि राधेयस्तीन्मृतान्वीक्ष्य बाष्पदृक् ।
अनिर्वेदः श्रियो मूलमित्येनं पुनरापतत् ॥ १५९ ॥ भीमः क्षरदसृग्धारो राधेयविशिखैर्बभौ । वीरश्रीस्नानकाश्मीरारुणनिर्झरशैलवत् ॥ १६० ॥
१. 'छन्नो' ख. २. 'कौन्तेयक' ख. ३. 'श्लेषानले' क. ४-५. 'प्रथमः ' क ख. ६. ‘गुप्त्यै’ स्व-ग. ७. ‘रथिना' क. ८. 'दुर्धर' ख ग ९. 'ताभूप चित्रवाणशरासनौ' ख- ग. १०. 'ताञ्जिता ' क; 'तान्हता' ख.
४५
Aho ! Shrutgyanam