________________
७द्रोणपर्व-३सर्गः] . बालभारतम् ।
३५१ याममुञ्चद्गजबलां घण्टालंकारिणी गदाम् । द्रुतं द्रुम इवाभजि त्रस्तद्रोणस्तया रथः ॥ १२५ ॥ (युग्मम्) तदा त्वदात्मजो राजन्सानुजो मनुजेश्वरः । स व्यालचन्दनवनौपम्यं भीमाशुगैरगात् ॥ १२६ ॥ वृन्दारकं दीर्घनेत्रं सुषेणं दुर्विमोचनम् । द्रौणकर्माणमभयं चित्रकान्ति सुदर्शनम् ॥ १२७ ॥ इत्यष्टौ त्वत्सुतान्राजन्नाजधान वृकोदरः । तच्छिरोभिः शरोत्क्षिप्तैः कन्दुकैः क्रीडयन्दिशः ॥ १२८ ॥
(युग्मम्) वर्षन्कीनाशदासेभ्यो हतैर्दण्डैरिवाशुगैः । स्यन्दनेनाष्टनादेन तदा द्रोणस्तमाद्रवत् ॥ १२९ ॥ रामरावणसंग्रामगुणग्राममलिम्लुचः । तदोच्छ्सदवष्टम्भः संरम्भः कोऽप्यभूत्तयोः ॥ १३० ॥ रथादथावरुह्याशु भीमो हस्ताग्रहेलया। हस्तीवोत्पाद्य चिक्षेप दूरे दूरे रथं गुरोः ॥ १३१ ॥ पृथक्कृताङ्ग शेततः शताङ्गाद्विद्रुते गुरौ । रथी वरूथिनी भीमो विशद्विदशविक्रमः ॥ १३२ ॥ अपूर्णचर्वणश्रद्धान्दूरदेशान्तरागतान् । यमदन्तानिव शरान्प्रीणयन्प्राणिकोटिभिः ॥ १३३ ॥ कर्णानीकं समीकार्थी घनाकुलमनाकुलः ।
भीमोऽभजद्गजक्रीडाकान्तारमिव केसरी ॥ १३४ ॥ संरब्धशैनेयधनुर्निनादानादाय भीमोऽद्भुतमुन्ननाद । तक्ष्वेडया दध्मतुराशु कृष्णौ कम्बू तदा धार्मिमनोविनोदौ ॥ १३५॥ पराङ्मुखोद्वर्तितवार्धिबिभ्यवीपान्तरः कोऽपि स शब्दपूरः । श्लथार्धनारीश्वरसंधिबन्धः समीरणस्कन्धसमीरयोऽभूत् ॥ १३६ ॥
१. 'चन्दनौपम्यं भीम' ख-ग. २. 'शतकात्' क.
Aho! Shrutgyanam