________________
३१०
काव्यमाला ।
कैकयाधिपतिज्येष्ठबृहत्क्षत्रद्रुमानलः । शिशुपालात्मभूधृष्टकेतुदावानलाम्बुदः ॥ ११३ ॥ जरासंघतनू जन्मसहदेवाम्बुदालिलः । धृष्टद्युम्नसुतक्षत्रधर्मश्वासानिलोऽरगः ॥ ११४ ॥ तेजसा प्रज्वलन्बाणैर्वर्षन्सर्पन्नुरुत्वरः । कोपेन निश्वसन् द्रोणः पार्थ व्याकुलयद्बलम् ॥ ११५ ॥ (त्रिभिर्विशेषकम् ) ( सात्यकिप्रवेशः )
क्षणेऽस्मिन्नन्तरिक्षान्तर्भाजि भास्वति भूपतिः । अभ्यधत्त समभ्येत्य भीमं भीमग्नमानसः ॥ ११६ ॥ वत्स त्वत्सत्त्वकालोऽयं द्विट्प्रविष्टं व्रजानुजम् । कर्ण्यते कैशवः कम्बुः क्रोशन्न पुनरार्जुनः ॥ ११७ ॥ द्विषद्विषमतामनं तात यातेऽर्जुनं त्वयि ।
द्रोणजां द्रौपदिर्भीति हन्ता हन्तायमेव मे ॥ ११८ ॥ इति श्रुत्वाभ्यधाद्भीमः प्रभो तेभ्योऽर्जुने व भीः । दधे मूर्ध्नि तथाप्येष शेषावत्तव शासनम् ॥ ११९ ॥ इत्युदीर्य महावीर्यः स्यन्दनख नगर्जनः । मदौघशाली कर्णान्तोलीनोड्डीनशिलीमुखः ॥ १२० ॥ पुरोलोकैर्दत्तमार्गः प्रपतद्भिरितस्ततः ।
( युग्मम् )
भीमः शकटभेदाय दन्ती मत्त इवाद्रवत् ॥ १२१ ॥ कौन्तेय यमिच्छा ते व्यूहं भेत्तुं मयि स्थिते । इत्युक्त्वामुं गुरुः क्रूरैर्बाणपूरैरर्पूरयत् ॥ १२२ ॥ तत्काण्डपतन व्यक्तसान्द्ररक्तो वृकोदरः । कालीकुचाग्रकाश्मीरक्लिन्नकाल इवाबभौ ॥ १२३ ॥ न शिष्योऽहं गुरुर्न त्वं नार्चामि त्वां यथार्जुनः । त्वां विजित्य विशन्तं मां पश्येत्युक्त्वानिलिर्गुरुम् ॥ १२४ ॥
१. 'द्रोणं द्रौपदिजैर्भीतं' क. २. 'ते भो' क. ३. 'शिष्य' ग. ४. 'कर्णान्तलीनो' ख-ग. ५. 'च' क. ६. 'पूजयत्' क. ७. 'कुचान्त' क. ८. 'क्लान्तः' क.
Aho ! Shrutgyanam