________________
७द्रोणपर्व-३सर्गः] बालभारतम् ।
तं जगाद गुरुर्मूढ किमु त्रस्तोऽसि सात्यकः ।। पाञ्चालीचिकुराकृष्टौ सृष्टो यः क स ते मदः ॥ १०१ ॥ यो हासः पाशपातेषु सारिद्यूतेऽभवत्तव । पतत्सु यमपाशेषु प्राणिद्यूते व तेऽद्य सः ॥ १०२ ॥ अधुनापि कुरुध्वं वा संधिं युधि भयं यदि।.. नं तच्चेत्परलोकाय युध्यत्वं तदशङ्किताः ॥ १०३ ॥ इत्युक्ते न्यग्मुखस्त्राणाभिलाषी सैष दीनदृक् । दैत्यावतारः पातालदैत्यान्गन्तुमिवैहत ॥ १०४ ॥ कृतान्तकिंकरस्वेच्छैम्र्लेच्छयूँढैः समन्ततः । स सात्यकिमगान्मङ्घ चक्षुर्वेगवरत्वरः ॥ १०५॥ . मुहूर्तेऽस्मिन्गुरुर्विप्रः प्रज्वलत्कोपपावकः । चित्रं नृणां सुरस्त्रीणां व्यधात्पाणिग्रहान्बहून् ॥ १०६ ॥ धीरकेतुचित्ररथचित्रकेतुसुधन्वनः । पाञ्चालदिग्जयस्तम्भाञ्जङ्गमान्सोऽभ्यपातयत् ॥ १०७ ॥ यज्ञयोनिस्तदा वीरो मूर्छयित्वा शरैर्गुरुम् । कृपाणपाणिस्तं हन्तुं दण्डपाणिरिवाद्रवत् ॥ १०८ ॥ गुरुस्तं लब्धसंज्ञोऽथ शरैरासन्नपातिभिः । किष्कुप्रमाणैर्वैतस्तैवैशारूढमपूरयत् ॥ १०९॥ त्रस्तेऽस्मिन्वाडवः सैष दीप्तहेतिरशोषयत् ।। अन्तर्धार्मिबलाम्भोधिं भुवनप्लवनामम् ॥ ११०॥ छिन्ने म्लेच्छबले बाणैः क्षीणवर्मायुधं युधि । दुःशासनं न शैनेयोऽवधीद्भीमभिया तदा ॥ १११ ॥ प्रविश्य पाण्डुवाहिन्यां नृपवक्राणि पद्मवत् । तदा लुलाव वीरश्रीपूजार्थीव द्विजो गुरुः ॥ ११२ ॥
१. 'सात्वतातू' ख-ग. २ 'दृष्टो' ख. ३. 'न तु चे' क. ४. धृष्टद्युम्नः. ५. “वं. शारूढमयूरवत्' क. ६. 'क्षमः' क. ७. 'ययौ' क.
Aho! Shrutgyanam