________________
द्रोणपर्व - ३ सर्गः ]
बालभारतम् ।
कृतवर्मादिभिः सूचिव्यूहं व्यूह्य तदन्तरे ।
न्यवेशयद्धृतं वीरैः सूचिपाशे जयद्रथम् || १ || (कुलकम् ) विपक्षपक्षमुत्क्षेष्टुं युधि गोप्तुं जयद्रथम् ।
३४१
स्वयं द्रोणोऽद्भुताङ्गस्य शताङ्गस्य धुरि स्थितः ॥ ६ ॥ माणिक्यप्रथितरथान्तरप्रतिष्ठस्तत्कालं भयदवपुः कपीन्द्रकेतुः । सैन्याग्रे जलदरुचिर्दिनाधिनाथ क्रोडस्थः शमन इव व्यलोकि वैध्यैः ॥ ७ ॥ कल्पान्तप्रकुपितकालकण्ठकण्ठप्रस्पर्धामिव दधतौ सुघोरघोषौ । कृष्णाभ्यां तनुरुचिमेचकौ तदानीं दध्माते प्रलयकरौ परेषु शङ्खौ ॥ ८ ॥ अन्योन्यं द्रुतमथ साहसप्रैसक्ता दोष्मन्तः प्रधनभृतोऽभितोऽभिचेलुः । आक्रन्दो गुणरवकैतवेन तेने तन्मुष्टिग्रहमसहिष्णुभिर्धनुर्भिः ॥ ९ ॥ आकृष्टैरथ हैवतो हयत्वराया मानेन स्फुरितुमनीश्वरैर्लुठद्भिः । चीत्कारं रथचरणैः क्षणं सृजद्भिद्रग्वेगादतिरथिनोऽमिलन्मदान्धाः ॥ १० संरम्भादुचितकृतप्रतिक्रियाणां वीराणामजनि तदा स शस्त्रपातः । प्रक्षुब्धे जगति यथा करं न तेषु प्रक्षेप्तुं क्षणमशकत्तमां यमोऽपि ॥ ११ ॥ संग्रामव्यतिकरजातखेदसादिस्वेदाम्भः प्रतिहतवर्णके तदानीम् । आरूढं रुधिरधुनीमहोर्मिवृन्दैः सिन्दूरीभवितुमिवेभकुम्भदेशे ॥ १२ ॥ अथ ज्यामारुतोड्डीनी निःसत्त्व तुषतन्दुलैः । कृतान्तं भोजयन्भूपैर्हेतिसिद्धैर्म होष्मभिः ॥ १३ ॥ पुरःपातिनि मातङ्गस्थलस्थपुटितामपि । रसामुल्लङ्घय तरसा द्रोणमाद्रवदिन्द्रभूः ॥ १४ ॥ ( युग्मम्) नत्वानुमान्य प्राङ्मुक्ताशुगमाच्छाद्य चाशुगैः ।
दक्षिणीकृत्य च द्रोणं स व्यूहं रंहसाविशत् ॥ १५ ॥ चक्ररक्षौ विविशतुर्युधामन्यूत्तमोजसौ ।
सहैव तेन वीरश्रीहक्कान्तिस्तबकाविव ॥ १६ ॥
१. 'विदधत्' इति पाठदर्शनात् 'चक्रे' 'न्यवेशयत्' इत्येतक्रियाकर्तुः पूर्वश्लोक एवोक्तत्वादिदमादर्शपुस्तकेष्वदृष्टमपि वर्धितम् २. 'लोकैः' ख ग ३ 'प्रसक्त्या' ख-ग. ४. ‘हन्ततो' क. ५. 'ईक्' क . ६. 'मरुदुड्डीन' ख- ग.
Aho ! Shrutgyanam