SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ७द्रोणपर्व-२सर्गः] बालभारतम् । ३३९ . सायुधानि समादाय योद्धं मां समुपाद्रवत् । अब्रवं ज्ञातवृत्तस्तं व्यूहभेदं निबोध मे ॥ ९६ ॥ चक्रव्यूहभिदे दत्ता मतिर्नो निर्गमे मया । अथास्मै दितिवंश्याय गुरुं ज्ञात्वा शशाम सः ॥ ९७ ॥ जानीहि पार्थ दैत्यासुं सौभद्रं सुतमाशु च । इत्युक्तोऽपि शुचाचष्ट त्रातो नो किमु मामकैः ॥ ९८ ॥] रणैकरौद्रं सौभद्रमनुयान्तो महारथाः । रुद्धा जयद्रथेनेति श्रुत्वा शाक्रिः क्रुधाभ्यधात् ॥ ९९ ॥ भास्वत्यनस्ते यदि सिन्धुराज गुप्तं हरेणापि न संहरेयम् । लिप्ये महापातकिनां च पापैस्ततः कृशानुं च विशामि दीप्तम्॥१०॥ इति प्रतिज्ञाय ततान वीरः कम्बुध्वनि कम्बुधरेण साकम् । युगान्तहेतोः परिपीय कर्णैः संचीयमानं हृदि शूलिनापि ॥ १०१ ॥ इति प्रतिज्ञया तस्य हिमान्येव जयद्रथः । कम्पी दुर्योधनेनापि त्रातुं तेजोनिधे गुरोः ॥ १०२॥ ततस्तदा तादृशपुत्रशोकतारप्रलापं रुदती सुभद्रा । . रणव्यसूनादिशता प्रभुत्वं प्रबोध्यमाना हरिणा जगाद ॥ १०३ ॥ दयाशया ब्रह्मविदो वदान्याः सत्योक्तयः शीलमया नयाढ्याः । अन्येऽपि ये केचन पुण्यभाजस्तेषां गतिं प्राप्नुहि पुत्रकेति ॥ १०४ ॥ कृष्णाज्ञया जयपरः परमस्मयोऽथ ___ तल्पे शुचौ सुचरितः स चिरात्प्रसुप्तः। . ऐन्द्रिः सहैव हरिणा हरशैलमौलिं स्वप्ने जगाम च ननाम च चन्द्रमौलिम् ॥ १०५ ॥ तं च तुष्टाव तुष्टात्मा वरदं विहिताञ्जलिः । देवं विश्वत्रयीहारं हरं हरिसखोऽर्जुनः ॥ १०६ ॥ ..१. 'तेजोनिधैर्गुरोः' ख; 'तेजोनिधिर्गुरुः' ग. २. 'सुचिरा' ख-ग. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy