________________
३३८
काव्यमाला।
मातुलोऽपि तदा वीर त्वया धीरेण न स्मृतः । । ईशेन सर्वगेनापि न त्रातोऽस्यमुनापि यत् ॥ ८३ ॥ हा पुत्र व गतोऽस्येहि दृढं परिरभस्व माम् । इत्युक्त्वा पतितः क्ष्मायां संज्ञामाप्योत्थितः पुनः ॥ ८४ ॥ [शैनेयप्रमुखैोरैर्बोध्यमानोऽपि वासविः ।
नामुञ्चत्सुतजं शोकं तद्गुणाकृष्टमानसः ॥ ८५ ॥ पुत्रावसानोद्भवशोकमग्नो जनार्दनेनाभिदधे पृथाभूः । आखण्डलप्रार्थनया हतं मे पुरासुरन(?)न्दमधर्मधर्मम् ॥ ८६ ॥ अभूत्तदा यो जनितोदरस्थो वलूकनामा शलभस्य पुत्रः । नाशं पितुर्माधवतो निशम्य स मद्वधार्थ तपसे जगाम ॥ ८७ ॥ अधित्यकायां दधतं हिमाद्रेस्तपः सुतीनं सुरशिल्पितुष्ट्यै । तद्भक्तियोगात्सुरसद्मकर्ता वरं वृणीष्वेति तमाह तुष्टः ॥ ८८ || स रत्नपेटीमसुना विधाय यस्यां प्रविष्टस्य रिपोरभेद्याम् । निरस्तदेहेन निमेषतोऽस्मै त्वष्टार्पयामास तदथिने ताम् ॥ ८९ ॥ यावत्समागच्छति मा स तस्यां कुशस्थलीस्थं बलतो निधातुम् । वर्षिष्ठभूदेवसुवेषभाजा भूत्वा पुरस्तावदयं मयोक्तः ॥ ९० ॥ विश्राम्यतां वत्स निवेदयाशु मञ्जूषया धावसि कुत्र कोपात् । प्रोक्तो मयेत्थं निजगाद सोऽपि हरिं स्वशत्रु ह्यनया ग्रहीष्ये ॥ ९१ ॥ एवं यदि स्यादहमद्य वच्मि विपक्षपक्षग्रहणेऽर्थसिद्धिम् । अवेहि मां मन्त्रगुरुं कुलस्य तवारिनाशे च विनष्टनिद्रम् ॥ ९२ ॥ आधास्यसि त्वं कथमेवमस्यां जनार्दनं त्वत्तनुवत्स्थविष्ठम् । आदौ त्वमेवाविश येन भूयादैत्येन्द्र विश्रम्भ इवावयोर्यत् ॥ ९३ ॥ मद्वाक्यविश्रम्भपरे सुरारौ तदा प्रविष्टे पिहिता मया सा। न्यस्ता च पेटी भुवने तदेति नोद्धाटनीयाभिहितः स्ववर्गः ॥ ९४ ॥
इतिवाचि गतेऽन्यत्र मयि पेटी सुभद्रया।
उद्धाट्यालोकि दैत्यासुस्तदास्या जठरे विशत् ॥ ९५ ॥ १. कोष्ठकान्तर्गताः श्लोकाः ख-ग-पुस्तकयोस्त्रुटिताः.
Aho! Shrutgyanam