________________
७द्रोणपर्व -२ सर्गः ]
बालभारतम् ।
पदोत्थधूलीतिमिराग्निकीटैः परिज्वलच्छौर्यशिखिस्फुलिङ्गैः । मिथोगदापातलसत्कृशानुकणैर्नभोवर्त्म विभूषयन्तौ ॥ ७१ ॥ चिरं चरन्तौ समराब्धिमध्यावर्तप्रसक्ताविव मण्डलानि । मिथोभिघातादभिपेततुस्तौ नवोढयोर्हक्प्रसराविवोर्व्याम् ॥ ७२ ॥ युग्मम्) अथाभिमन्युं पतितं जघान क्रूराशया कौरवराजसेना । तीव्रास्त्रपातेन सुखप्रसुप्तं पति कुरक्तेव विलोलनेत्रा ॥ ७३ ॥ उत्थाय दौःशासनना च तस्य धिग्धिकृतो मूर्ध्नि गैदाभिघातः । तेने तदङ्गेन तदात्रवृष्टिः साकं सुरस्त्रीजललोचनेन ॥ ७४ ॥ विरथो रथिभिः क्षत्रयोधी कुक्षत्रयोधिभिः ।
एकोऽनेकैः शिशुः प्रौढैर्जघ्नेऽभूदिति खे ध्वनिः ॥ ७९ ॥ पुनरुत्थितिभीत्यैनं शङ्कमानैः क्रमात्पृथुः ।
अतन्यत तदा सिंहनादः कुरुमहारथैः ॥ ७६ ॥
ततो व्रजद्भिः कुरुवीरवृन्दैर्विद्राव्यमाणेषु पृथासुतेषु । प्रतापमित्रे पतितेऽभिमन्यौ ययौ जलायेव पयोधिमर्कः ॥ ७७ ॥ जातेऽवहारे चलितः कलितारिक्षयोऽर्जुनः । इष्टनाशं वैमनस्याच्छङ्कमानोऽविशञ्चमूम् ॥ ७८ ॥ शोकातुरान्स चतुरोऽपि निरूप्य बन्धू
नूचेऽधुनापि न सुतः स्पृशति क्रमौ मे । तत्कि छलेन रिपुभिः स हतोऽद्य चक्र
व्यूहं विशन्नकुशलः खलु निर्गमेऽस्य || ७९ ॥ श्रुतेऽथ सुतवृत्तान्ते मूर्छितं तं जगौ हरिः । मा वीरं शोच रोचिष्णुचरितं दिव्यतां गतम् ॥ ८० ॥ उत्थाय लब्धसंज्ञोऽथ पार्थः प्राह क्व पुत्रकः । स्वप्नचिन्तामणिमिव द्रक्ष्यामि त्वन्मुखं पुनः ॥ ८१ ॥ भीमाद्यैरेभिरुग्रास्त्रैरपि चातोऽसि नो तदा ।
क्व वा दन्तिभिरुद्दन्तैर्धियेताद्विशिरः पतत् ॥ ८२ ॥
6
Aho ! Shrutgyanam
३३७
१. 'वित' ग. २. 'पदा' क. ३. 'रुत्तिष्ठतीत्येनं' क. ४. 'उल्लालयन्धिसंज्ञो' ख.
४३