________________
७ द्रोणपर्व -२ सर्गः ]
बालभारतम् ।
अङ्गराजपृतना नृपतीनां रक्तकुङ्कुमरसैः स्नपिता च । पूजिता च मुखपद्मकदम्बैख्यम्बकाङ्गमिति तेन तदा भूः ॥ ४७ ॥ क्षुण्णभोजनृपकुंजर केतुः क्ष्मापनिर्जितसुशासनसूनुः । भग्नमद्रपरथो भृशमस्नादेष खिन्न इव कीर्तिपयोधौ ॥ ४८ ॥ मेघवेगविधुकेतुसुवर्चः शौर्यशत्रुजयभूपतिहन्त्रा । तेन सौबलबलक्षयत्र त्रासितः शकुनिरेंस्खघुताङ्गः ॥ ४९ ॥ इत्यमुत्र शरसंहतिपातैः संहरत्यहह मुक्तकचानाम् ।
ही ति हेति हहहेति च शब्दांत्रस्यतामुदभवन्सुभटानाम् ॥ १० ॥ इत्यवेक्ष्य जगत्रयशूरः सूरसूनुरपि दूरितयुद्ध: । द्रोणमेत्य स विदधौ गिरमुग्रश्वासखण्डितपदौघविवेकम् ॥ ९१ ॥ विक्रमव्यतिकरैः शतमन्युस्फारमन्युरभिमन्युभटेन्द्रः ।
तात कातरयति प्रधनाग्रे योद्धुमीयुषि यमेsपि यमोऽस्मान् ॥ ५२ ॥ नेह कुण्डलितधन्वनि बाणाः कृष्टिसंधितविमुक्तिषु हृष्टाः । वैरिरक्तरसनव्यसनेन प्रोत्थिताः स्वयमिवाशु निषङ्गात् ॥ १३ ॥ संगरे स यमदेवनिकेतं कर्तुमारभत किं विदधे यत् । अश्वपीठगजपीठर्नृपीठ श्रीकृतेऽश्वगजनृव्रजपातम् ॥ १४ ॥ मृत्युरेष यम एष युगान्तारम्भ एष इति दूरगतानाम् । संप्रति क्षितिभुजां युधि धावद्वन्धुपालनकृतां तुमुलोऽभूत् ॥ १५ ॥ पूरितं खलु दृढप्रतीनां कौतुकं न करिवीरकुलैस्तैः । तज्जवेन ययुरस्य दिगन्तान्पत्रिणो दिगिभदिक्पतिलोलः ॥ १६ ॥ तद्वले समुदितः क्षयरोगो युज्यते न तदुपेक्षितुमेषः । स्वैरमेतदुपशान्तिभराय सृज्यतां सपदि कश्चिदुपायः ॥ ५७ ॥ इत्युदीतगिरि तत्र गुरुर्गामुज्जगार ननु सैष कुमारः । तातमातुलसमः समरान्तस्तक्षति क्षणलवेन 'बलं नः ॥ ५८ ॥
३३५
१. क्षितेरष्टमूर्तिमूर्त्यन्तर्गतत्वात् २. 'तदाभूत्' ग. ३. 'कर्ता' क. ४. 'रखधुराङ्गः " क; 'रस्त्रिधुताङ्गः' ख. ५. 'विवेकाम्' ख-ग. ६. 'रथाङ्ग' ग. ७. 'लोभाः ' क. ८. 'त्वद्वले' ख. ९. 'प्रार्थ्यतां' ख; 'प्रथ्यतां' ग. १०. 'बलेन' ख ग.
Aho ! Shrutgyanam