________________
३३४
काव्यमाला ।
रुद्रमुद्रणरणस्थितिरौद्रं नाम धाम च धनुश्च दधानः । उच्चकर्त स तदा कुरुलक्ष्मीकेलिखण्डभटमुण्डफलानि ॥ ३५ ॥ कर्णसूनुवृषसेनभुजाभृत्तूलफूलपवनो जवनोऽयम् । अक्षिपत्क्षितिधवस्य वसन्तश्रीलताविटपनो मुखपुष्पम् ॥ ३६ ॥ उच्चकर्त स च बाणचयैः सत्यश्रवोनृपजयीभुजमौलिम् । क्रन्दकारिमणिभूषणनादैः शल्यजस्य युधि रुक्मरथस्य ॥ ३७ ॥ शल्यसूनुसुहृदः सुहृदर्थे धावतः शतमिलापतिपुत्रान् । स व्यधत्त मुदितान्युधि गन्धर्वास्त्रदर्शितसुहृत्पथभाजः ॥ ३८ ॥ भिद्यमानहृदयानि तदानीं तस्य विक्रमगुणैश्च शरैश्च । दैवतानि च कुलानि च राज्ञां मूर्द्धकम्पविवशानि बभूवुः ॥ ३९ ॥ शौर्यदन्तिदशनायितबाहुं लक्ष्मणः कुरुनरेश्वरसूनुः । श्रीलताकिशलयः स्मरशोभापल्वलैककैमलस्तमियाय ॥ ४० ॥ काणिमार्गणगणैः पिहितेऽर्के लक्ष्मणः शठ इवाशु भुजंगः । आलिलिङ्ग वसुधां वपुषा च द्यां मुखेन च धुतेन चुचुम्ब ॥ ४१ ॥ अङ्गजव्ययजकोपकृशानुज्वालजालनिभलोचनरोचिः । संहतैः सह महारथचराद्रवत्तमथ कौरवनाथः ॥ ४२ ॥ रोमरोमपतितैः प्रतिवीरस्तोमहेमविशिखैर्विरराज । अन्तरुद्भुषितधैर्यमयास्त्रप्रस्फुटत्पुलकदण्ड इवासौ ॥ ४३ ॥ . दृग्विषो न भुजगो भुजदण्डस्तस्य चण्डचरितस्य तदानीम् । चापदृक्प्रसृमरेण ददाह द्विगणानिषुविषज्वलनेन ॥ ४ ४ ॥ लक्ष्मणाय जलमेष ददौ तद्दारकक्षितिपतिक्षतजेन । कोशलेश्वरबृहबलमूर्धा पिण्डमप्यथ पितृव्यसुताय ॥ ४५ ॥ तत्कराम्बुजशिलीमुखदंशव्याकुले क्षुभितवत्यथ कर्णे । कौरवावनिधवध्वजिनी सा संभ्रमेण सकलापि चकम्पे ॥ ६ ॥ १. 'पूर' क. २. 'वसन्ते' ग. ३. 'कमलं तमि' ख-ग.
जन
Aho! Shrutgyanam