________________
७द्रोणपर्व-२सर्गः] बालभारतम् ।
३३१ पार्थोपमात्रसति शत्रुबले व्याकम्पिभूमितलभूमिधरे ।
अस्ताचलादपतदुष्णरुचिर्वीराः प्रतेनुरवहारमतः ॥ ८४ ॥ (द्वितीयमहः) इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारते द्रोणपर्वणि दिनद्वय
संग्रामवर्णनो नाम प्रथमः सर्गः।
द्वितीयः सर्गः। धर्मशास्त्रकविमिष्टकवित्वाद्धत्त चित्तभुवि कृष्णमुनीन्द्रम् । . तत्कवित्वगुणनप्रतिशब्दा येन वक्रकुहरे विहरन्ति ॥ १ ॥ धर्मजग्रहदृढीकृतसंधस्तै टैर्युधि किरीटिनि हृत्ते । प्रीणयन्कुरुवरानथ चक्रव्यूहमति विमले गुरुराधात् ॥ २॥ तत्र भूभृदयुतेन कृतारे तारनादिनि मणिध्वजतारे। भूपतिः परिवृतः पृतनाभिर्नाभितामधित चक्रसमाभिः ॥ ३ ॥ संहितः कुरुनरेन्द्रकनिष्टैस्त्रिंशता त्रिदशवीरवरिष्ठैः । तन्मुखे गुरुरसौ बलसिन्धुः सिन्धुराजसहितो विरराज ॥ ४ ॥ दुर्भिदं भवमिवाथ पुरस्तं व्यूहमुद्भटसमूहमुदीक्ष्य । दृग्भरेण परिरभ्य सुभद्रासूनुमभ्यधित धर्मतनूजः ॥ ५ ॥ विष्णुजिष्णुमदनाश्च भवांश्च व्यूहमेतमभिभेत्तुमधीशाः । त्वत्पिता स्फुरति संप्रति दूरे तद्भुरं वहतु दुर्गमहाश्रीः ॥ ६ ॥ पार्थभूरथ मुदा गिरमूचे व्यूहमद्य रमसेन भिननि । मां निरीक्षयितुमज्ञममी तु स्यन्दनैर्भुजभृतोऽनुपतन्तु ॥ ७ ॥ एवमस्त्विति तपस्तनयेऽथ व्यक्तवाचि सहसाञ्चितचापः । राजकानि गणयंस्तृणमक्ष्णां मङ्ख फाल्गुनिरनोदयताश्वान् ॥ ८ ॥ तर्कुटङ्कहृतया रविभासा निर्मितस्त्रिदशवार्द्धकिनेव । भासयन्दश दिशो रिपुशूरैर्दूरतोऽपि दुरवेक्षशरीरः ॥ ९ ॥ रुक्मकङ्कटरथः कपिशाश्वः स्वर्णशाङ्गपतगोज्ज्वलकेतुः । सर्वतो मुखसमुन्मिषदन्तःपौरुषोष्मशिखिशाख इवोच्चैः ॥ १० ॥ १. गुणाभावश्चिन्त्यः. २. 'निरीयितुमविज्ञ' क-ख.
Aho! Shrutgyanam