________________
३३०
काव्यमाला ।
द्रोणस्तु धार्मिग्रहणप्रपञ्च पञ्चालभूपालचमूं प्रविश्य । क्षिप्तैः सरोजैरिव वीरवत्रैर्दिशः स्वतेजोविधुरा व्यधत्त ॥ ७२ ॥ नीलाम्बरस्यन्दनसूतसप्तिर्नीलस्तडित्वानिव पावकास्त्रैः । माहिष्मतीशः शरवारिवर्षी द्राग्द्रोणसेनां विधुरीचकार ॥ ७३ ॥ छिन्नातपत्रध्वजकार्मुकोऽथ द्रोणात्मजेनाभिपतन्धृतासिः । नीलद्युतिर्दण्डधरो नु नीलः श्रीनीलकण्ठावतरेण जघ्ने ॥ ७४ ॥ छिन्नेऽथ तन्मूर्धनि पाण्डुसेनामोलीन्द्रनीले कुरुषून्नदत्सु । पार्थः पुनर्निर्दलितत्रिगर्तस्तत्राशु निर्घात इवापपात ॥ ७५ ॥ एकोऽपि तुल्योऽखिलदेवदैत्यैः पार्थः परं बेसखो बलाब्धिम् । विलोडयामास तथा यथाभूयोम स्फुरत्सोमभरं भटास्यैः ॥ ७६ ॥ ततान भानोस्तनयस्तदास्त्रमाग्नेयमग्निप्रबलप्रतापः । अतर्कि वीरैः प्रधनप्रदत्तो यद्दीपितैः स्वस्य रविप्रवेशः ॥ ७७ ॥ हत्वा तमग्निं हरिनन्दनोऽब्दैः कर्ण शरैर्वेणुवनं विधाय ।
न क्षणिमृङ्गयः कति रक्तसिन्धूर्युद्धाम्बुराशेर्दयितास्ततान ॥ ७८ ॥ ततो जघानावरजं विपाटं शत्रुंजयं वीरमयं प्रवीरः । कर्णानुजान्वैरिनरेन्द्रराज्यश्रियः पुमर्थानिव तत्र पार्थः ॥ ७९ ॥ शौर्यातिरेक शुभयोरुभयोः कर्णार्जुनप्रबलयोर्बलयोः । आसीत्ततोऽतिनिधनं प्रधनं हृष्यन्निशाचरपिशाचरवम् ॥ ८० ॥ विद्विष्टशस्त्र फणिदष्टतनोर्मूर्छाभृतो भटभरस्य तदा । कीलालपूरपरिपूर्णनदीवाहैः प्रवाहनमभूदुचितम् ॥ ८१ ॥ उच्छिन्दैन्सुभटभुजासरोजनालान्युद्भिन्दन्हरिलहरीः समीरसूनुः । उद्गर्जन्गज इव विस्फुरन्मदोष्मा तां दोष्मानसहनवाहिनीं जगाहे ॥ ८२ ॥ कोऽप्यासीन्नरशरपातताडितानामाक्रन्दः स युधि विरोधिवाहिनीनाम् । सस्मार स्वदहनदह्यमानलङ्कालोकानां कपिरपि येन स ध्वजस्थः ॥ ८३ ॥
१. 'प्यधत्त' ख- ग. २. 'बभ्रुवैश्वानरे शूलपाणौ च गरुडध्वजे' इति मेदिनि:, ३. 'निधाय' क. ४. 'तानि विद्मः' क. ५. 'न्दंस्तु' क.
Aho! Shrutgyanam