________________
७द्रोणपर्व - १ सर्गः ]
स आपतन्काण्डहतप्रवीरकीलालपङ्कोच्चयमुच्चकार । ज्याघोषमूकीकृतसुप्रतीकः खिन्नैरखिन्नैश्च नरैर्निरैक्षि ॥ १९ ॥ प्राग्ज्योतिषेन्द्रेण तदा मदान्धं द्विपेन्द्रमद्रीन्द्रमिव प्रयुक्तम् । देवोऽपसव्येन रथेन विष्णुवृथोद्यमीकृत्य पुनः पुरोऽभूत् ॥ ६० ॥ क्षिहवाथ नाराचशतानि पार्थे नारायणास्त्रं स मुमोच वीरः । तद्वक्षसादत्त सुपर्णकेतुः सुवर्णसूत्रायितमेवं देवः ॥ ६१ ॥ युद्धेऽप्ययोग्योऽस्मि धृतं यदत्रं त्वयेति खिन्नोक्तिपरेऽथ पार्थे । कुक्षिस्थितक्षीरसमुद्रमन्द्रसुधार्द्रमूचे वचनं मुरारिः ॥ ६२ ॥ दैत्याय दत्तं नरकाय भूमिसुताय भूप्रार्थनया मया स्वम् । तेनेदमस्मै स्वसुताय तच्च समित्यगृह्णां जय संप्रतीमम् ॥ ६३ ॥ इत्युक्तिमाकर्ण्य हरेर्नरेण क्षिप्तैः क्षणादूर्ध्वमुखैः पृषत्कैः । विद्धा द्विपं तं च नृपं चरद्भिरभ्रान्तरभ्राम्यत नाकिलोकः ॥ ६४ ॥ कृत्ता शरैस्तस्य गजस्य घण्टा च्युतानि खात्तत्क्षणमत्रपङ्के । व्यधत्त मार्कण्डपुराणविद्यात्रीजानि चत्वारि खगाण्डकानि ॥ ६५ ॥ तदा नदन्तौ नरबाणपातविद्धो बलाधि भगदत्तनागौ । विलोडयामासतुरस्रधाराछलोच्छलद्विदुमवल्लिजालम् ॥ ६६ ॥ ततः किरीटिप्रदरेण मौलिप्रवेशिना बुघ्नविनिर्गतेन । विभिन्नकायः स पपात कुम्भी महाद्रिपादस्तडितेव तूर्णम् ॥ ६७ ॥ अथार्धचन्द्रेण वितन्द्रचन्द्रसहस्रसान्द्रोज्ज्वलकीर्तिजालः । प्राग्ज्योतिषक्षोणिपतेः स कोपवित्तानसूनाशु नरो निरास ॥ ६८ ॥ श्रीकामरूपक्षितिपे हतेऽथ पार्थेषुपङ्ख्या परिपीड्यमाना । न कंचिदापारिचमूः शरण्यं मरौ पशुश्रेणिरिवान्दवृष्ट्या ॥ ६९ ॥ गान्धारवीरौ वृषकाचलाख्यौ सुसंहतावुद्धतयुद्धसिद्धी । अपातयच्छात्रवशौर्यदन्तिदन्ताविवैकेन शरेण पार्थः ॥ ७० ॥ जिग्येऽथ मायामयदुष्टसत्त्वशस्त्रान्धकारादिविकारयुद्ध: । गान्धार भूपोऽनुजलोपकोऽपि किरीटिना सौरमहास्त्रयोगात् ॥ ७१ ॥ १. 'देवोऽथ' क. २. 'देवदेवः' क. ३. 'व्यधत्त' ख.
४२
बालभारतम् ।
Aho ! Shrutgyanam
३२९