________________
३३२
काव्यमाला |
यन्मुदादितबलो बलवत्तत्कोपतप्तनयनद्युतिदीप्तम् । धारयन्धनुरपक्षपशूनां होमकुण्डमिव कुण्डलितं सः ॥ ११ ॥ स्पर्धमानमंहसं पतिमह्नामप्यहो शरभरैः पिदधानः । शिष्यमाणशरणो रणशिष्यैस्त्रासवद्भिरसुरैश्च सुरैश्च ॥ १२ ॥ उग्रवेग जितया खलु रेखारूपया तनुरुचाप्यनुयातः । मृत्युराक्षसमुखानलकीलेष्वाकुलेष्वरिकुलेषु पपात ॥ १३ ॥
( पञ्चभिः कुलकम् )
उन्नदन्परिहसन्धनुरुचैर्ध्वानयन्प्रविकिरन्विशिखैौघान् । लोष्ठपातचलकाककुलाभं तच्चकार बलमाशु कुमारः ॥ १४ ॥ तच्छरैर्गुरुभिराशु सुदूरादापतद्भिरपराधपरेषु ।
ताडिता च सहसा विरटन्ती कोडिता च शिशुवद्विपुसेना ॥ १५ ॥ द्रोणसिन्धुनृपती पgan द्राक्कपाटपुटवद्विघटय्य ।
नागराज इव राजकुमारस्तद्वलं नगरवद्विजगाहे ॥ १६ ॥ पूर्वशर्ववरदुर्धर सिन्धुक्ष्मापनिर्जितधुतैः सबलोधैः । पाण्डवैः सहचरैरहितस्य श्री चुम्ब वदनं नरसूनोः ॥ १७ ॥ उद्भटप्रतिभटक्षयसंघामुक्तवेणिरिव लोलपताकः । घोरघस्मररवोऽभवदस्य व्यूहवीरभयदो रथ एव ॥ १८ ॥ एत्यसावभिगतोऽयमदीनं हन्त हन्त्ययमनेन हता हा । लात लात हत रे हत रेऽमुं तं प्रतीत्यजनि राजगणोक्तिः ॥ १९ ॥ राजकस्य तदिषुक्षतधूता मौलयस्तरलकुण्डलपक्षाः ।
संगरे भटभुजाभुजगाग्रे हेमपक्षिपृथुका इव पेतुः ॥ २० ॥ रुण्डमुण्डमयमेव धरित्रीपीठमस्त्रमयमेव विहायः । रक्तबिन्दुमयमेव तदाशाचक्रवालमकृतैष भुजालः ॥ २१ ॥ तस्य पत्रिषु ततेषु विभिन्नैर्व्यक्तमौक्तिकरदै रदिकुम्भैः । स्वर्वधूकुचतटार्पितहस्तं स्वं निषादिभटवृन्दमहासि ॥ २२ ॥
१. 'महसा' क. २. 'भुजगोऽप्रे' क.
Aho! Shrutgyanam