________________
काव्यमाला।
द्रोणपर्व।
प्रथमः सर्गः। क्षमां दधानः स गिरिप्रधानः सिद्ध्यै सतां व्यासमुनिर्महोच्चैः । यः पुण्यकृत्पर्वशतावबद्धभावन्महाभारतवंशहेतुः ॥ १ ॥ इत्थं पितुः पातकथां निशम्य मूछी गतं धीनयनं प्रबोध्य । गत्वा पुनदृष्टरणोऽभ्युपेत्य गावल्गनिस्तं क्षितिपं जगाद ॥ २॥ राजन्सुतास्ते पतितेऽथ भीष्मभानौ महामोहतमःसु मन्नाः । प्रीताः पुनः प्रेकति कर्णदीपे व्यधुर्विधेयेषु पुनः प्रयत्नम् ॥ ३ ॥ कर्णानुमत्त्या पृतनाधिपत्ये द्रोणः प्रसन्नो विधिनाभिषिक्तः । वरप्रदः प्रार्थि सुयोधनेन धृत्वा श्वसन्तं नृपमर्पयेति ॥ ४ ॥ नरो न रक्षां सविधे विधाता यदा तदा धर्मसुतं ग्रहीष्ये । इत्युल्लसद्वाचि गुरौ कुरूणां बले बभूव प्रेमदप्रणादः ॥ ५ ॥ इत्थं विदित्वार्जुनरक्षितात्मा क्रौञ्चाह्वयं व्यूहमधत्त धार्मिः । बभूव सज्जः शकटाभिधेन व्यूहेन युद्धाय सुयोधनोऽपि ॥ ६ ॥ द्रोणस्ततः शोणहयो हिरण्यकमण्डलुस्थण्डिलचापकेतुः । आकर्णभास्वत्पलितोऽमितश्रीः सुवर्णसंनाहरथः पुरोऽभूत् ॥ ७ ॥ उरःप्रविष्टस्य महाभटानां दृग्वर्त्मनेव त्वरितं निरीय । कोपानलस्य ज्वलतो महोल्का ईव प्रपेतुर्द्विषतः पृषत्काः ॥ ८ ॥ कदम्बनालं परवाहिनीषु विस्तीर्णमल्पान्तरगुम्फसान्द्रम् । द्रोणपँमुक्तं परितोऽभिपत्य प्रभूतजीवक्षयहेतु जज्ञे ॥ ९ ॥ प्रतापमित्रस्य रवेस्तनूनं कालं करस्थं करवालमूर्त्या । अप्रीणयत्पौरवभूमिपालकपालरक्तासवतोऽभिमन्युः ॥ १० ॥ तस्याथ मद्रेशजयद्रथाश्वसूतच्छिदास्रच्छुरितासिलेखा । तेजोऽग्निकीलेव रराज राजवंशप्रतापोच्छलितस्फुलिङ्गा ॥ ११ ॥
१.. 'प्रबल: ख, 'प्रबलप' ग. २. 'इदं' ख. ३. 'ऽसित' ख-ग. ४. 'इवाभिपेतुःख. ५. 'वर' क. ६. प्रयुक्तं' ख.
Aho! Shrutgyanam