________________
३२२
काव्यमाला ।
दुःखशोकभयार्तेषु गलदश्रूगम्बुषु । महामोहप्रविष्टेषु कम्पमानेषु राजसु ॥ २६८ ॥ अलुप्तात्मनि गाङ्गेये दीप्यमाने धुवागभूत् । उत्तरायणकालाय प्राणान्योगीन्द्र धारय ॥ २६९ ॥ (युग्मम्) नियुक्तैर्गङ्गया हंसरूपैर्मुनिवरैरपि । इत्येवं कथिते योगी स्थितोऽस्मीति जगाद सः ॥ २७० ॥ शान्तनिः सान्त्वयित्वाथ चकितान्कुरुपाण्डवान् । शिरो मे लम्बते कष्टं धार्यतामित्यभाषत ॥ २७१ ॥ उपधानाय धावत्सु धात्रीशेषु धनंजयः । शरैस्त्रिभिरभिज्ञो द्राक्तन्मूर्धानमधारयत् ॥ २७२ स्तुवंस्तमथ गान्धारिमभ्यधत्त धुनीसुतः । मदन्तमस्तु वो वैरं पत्यन्तं योषितामिव ॥ २७३ ॥ निशि याचञ्जलं हेमकुम्भहस्तेषु राजसु । दिव्यैर्जलैर्जलास्त्रेण तर्पितः स किरीटिना ॥ २७४ ॥ तेनाथ पूजिते पार्थे पार्थिवेषु गतेषु च । एत्य प्रसादयामास कर्णस्तु प्रसृताञ्जलिः ॥ २७५ ॥ पातङ्गिमूचे गाङ्गेयः प्रथायाः सूनुषु त्वया । सहोदरेषु संरब्धो मुच्यतां वत्स मत्सरः ॥ २७६ ॥ कर्णोऽभ्यधात्मभो वैरं न मे बन्धुषु किंतु माम् । अनुजानीहि मित्रैकसौहार्द वशगं युधि ॥ २७७ ॥ गङ्गासुतेनानुमतः पतङ्गतनयस्ततः । ययौ मन्दितवातेन स्यन्दनेन वरूथिनीम् ॥ २७८ ॥ तदनु दिनपतिश्रीभाजि भीष्मेऽस्तभासि
प्रतिनृपतिमहास्त्रध्वान्तभीकम्पितानाम् ।
१. 'गां वाचमभ्य' ख-ग.
Aho! Shrutgyanam