________________
३१८
काव्यमाला ।
इत्यस्य निष्ठापयतो भटान्भीष्मस्य सत्वरः । प्रतिज्ञां स्मारयन्विष्णुर्जिष्णुमभ्यानयत्पुनः ॥ २१८ ॥ गाङ्गेयमार्गणगणैः सर्वाङ्गप्रचरिष्णुभिः । सर्पिसर्पस्य बीभत्सुश्चन्दनस्य निभो बभौ ॥ २१९ ॥ अथातिशिथिले पार्थे संरब्धे सिन्धुजे भृशम् । प्रतोदपाणिरुन्मुक्तरथोऽधावत माधवः ॥ २२० ॥ प्रभुं वधाय धावन्तं क्रुधावन्तं विलोक्य तम् । वपुः सपुलकं बिभ्रद्भीष्मो धुन्वन्धनुर्नगौ ॥ २२१ ॥ एोहि नाथ गोविन्द मां प्रतोदेन ताडय । उक्षाणमिव संसारारण्योल्लङ्घनमन्थरम् ॥ २२२ ॥ इत्युक्तिभाजि भीष्मे द्रागनूत्पत्य धनंजयः । मुकुन्दं स्यन्दनं निन्ये नत्वा युद्धप्रतिज्ञया ॥ २२३ ॥ अथार्जुनशरोत्क्षिप्तराजराजिमुखच्छलात् । प्रनृत्यत्सु कबन्धेषु पद्मवृष्टिरिवाभवत् ॥ २२४ ॥ प्रेक्ष्य भीष्मक्षुरप्राग्रोत्क्षिप्तान्क्ष्मापशिरोभरान् । राहुव्यूहभियेवाब्धि गतेऽवाहरन्नृपाः ॥ २२५ ॥ (नवममहः) अथ ध्यायन्वरूथिन्या मथनं पार्थपार्थिवः । निशायामवदद्दीनमना दानवसूदनम् ॥ २२६ ॥ यदि त्रिजगतीसत्त्वमेकीभूयापि युध्यते । तथापि नापगेयस्य कामं रोमापि कम्पते ॥ २२७ ॥ गाङ्गेयजेयताबुद्धिस्तन्मूढमनसामियम् ।। अन्तायैव पतङ्गानां दीपे रन्तस्पृहेव नः ॥ २२८ ॥ अथाचष्ट हरिः कष्टमिदं भजसि भूप किम् । आपगेयं प्रगे हन्मि को भेदः कृष्णकृष्णयोः ॥ २२९ ॥ अथ माह नृपो नाहमसत्यत्वं तनोमि ते । अनपायं जयोपायं प्रष्टव्यस्तु पितामहः ॥ २३० ॥
Aho! Shrutgyanam