________________
भीष्मपर्व-२सर्गः] बालभारतम् ।
३१९ इति निश्चित्य कृष्णेन सोदरैश्च समं नृपः । गुप्तो गत्वा जयोपायं भीष्मं पप्रच्छ भक्तितः ॥ २३१ ॥ गाङ्गेयोऽथ जगौ युद्धाटोपे कोऽपि न मां जयेत् । तजेयोऽहमवध्येन स्त्रीपिण्डेन शिखण्डिना ॥ २३२ ॥ श्रुत्वेति भीतो राजानं नत्वा स्वशिबिरं ययौ । प्रातर्जातमहाव्यूहैर्वीरव्यूहैरथोत्थितम् ॥ २३३ ॥ प्रवीरमुक्तैः शस्त्रौधैर्दिवि संघट्टिभिमिथः । चूर्णिता इव चण्डांशुकरा वह्निकणा बभुः ॥ २३४ ॥ वीरेषुपूरा वीरेषु ययुयोम्ना भुवा पुनः । तच्छायच्छद्मना कालकिंकराणां कराः समम् ॥ २३५ ॥ ततश्चलच्चमूत्खातक्षितिस्पृष्टाः फणीशितुः । रत्नभास इवैक्ष्यन्त युद्धोत्थाः क्षतजोमयः ॥ २३६ ॥ आसन्नवीरलग्नेऽपि द्विड्बाणे स्वीगवञ्चिनी । रक्तं बालातपं प्रेक्ष्यामाद्यन्वीरा क्षतभ्रमात् ॥ २३७ ॥ वीरैः शिखण्डिगाण्डीविप्रमुखैर्विमुखीकृतम् । गौरयन्कौरवं चक्रं विचक्राम पितामहः ॥ २३८ ॥ ममज्जुर्वीरगात्रेषु तन्मुक्ता बाणपतयः । यथा मरुस्थलोर्वीषु धारा धाराधरोज्झिताः ॥ २३९ ॥ भीष्मः शिरोभिर्भूपानां क्षुरप्रोत्क्षेपपातितैः । ममर्द द्विट्चमू यन्त्रोपलगोलकुलैरिव ॥ २४० ॥ गोचक्रतप्तवित्रस्तविश्वस्य ज्वलतोऽजनि । कृकलास इवार्कस्य शिखण्डी तस्य संमुखः ॥ २४१ ॥ अथाभ्यधत्त तं भीष्मः कामं प्रहर हन्त माम् ।
कृतिनोऽर्था इवापात्रे नायान्ति त्वयि मे शराः ॥ २४२ ॥ , १. 'ततः पप्रच्छ भक्तितः' क; 'ततः पप्रच्छ भीष्मतः' ग. २. 'हीनतो राजा' ख-ग. ३. 'रक्तवालातपप्रेक्षामासन्' ग.
Aho! Shrutgyanam