________________
६भीष्मपर्व-२सर्गः]
बालभारतम् ।
कवलीकृतमार्तण्डं तदोच्चैः प्रसृतं तमः । रक्षोमुखाग्निकीलाभिः स्फारोद्धारमिवाबभौ ॥ २०५॥ तमोवलज्वलन्नेत्ररक्षोभिः क्षोभिते बले । आर्जुनिय॑तनोदस्त्रं तापनं स्वप्रतापवत् ॥ २०६ ॥ क यास्यतीदमित्यर्कैः सर्वतोऽभ्युदितैस्तदा ।। क्ष्मायाश्छायामयमपि ध्वान्तमग्रासि हासिभिः ॥ २०७ ॥ तमसि ग्रस्यमानेऽर्केस्तमःश्यामं निजं वपुः । निभाल्येव भयार्तेन पलादेन पलायितम् ॥ २०८ ॥ प्रहारचण्डै चालि वाचालैर्घटितोऽप्यथ । भीष्मादिभिः परिणतः सौभद्रोऽद्रिरिव द्विपैः ॥ २०९ ॥ अर्थन्द्रिः सुतसंघट्टकुपितः कपिकेतनः । अस्त्रं ससर्ज वायव्यं कायव्ययकृते द्विषाम् ॥ २१० ॥ लोठितानां भटेन्द्राणां यशांसीव समीरणाः । स्थलान्युत्क्षिप्य मलिनीचक्रिरे धूतधूलयः ॥ २११ ॥ क्षिप्ताः शैलास्त्रतः शैला द्रोणेन स्खलितानिलाः । अधावन्नधरीकर्तुमिन्द्रवैरादिवेन्द्रनम् ॥ २१२ ॥ अथ पार्थेन नाराचसार्थेन कुलिशत्विषा । विकीर्य जालं शैलानामालभ्यत बलं द्विषाम् ॥ २१३ ॥ वातपुत्रगदाघातक्षतमातङ्गजातजाः । तत्रासृक्सरितः सः प्रेतहासोच्चफेनिलाः ॥ २१४ ॥ शिरःकलिङ्गकै रुण्डकूष्माण्डैर्भुजचिर्भटैः । क्षिप्तै राज्ञां व्यधाद्भीष्मः कालशाकवनं मृधम् ॥ २१५ ॥ भीष्मबाणच्युतै राज्ञां छत्रैश्चामरसंयुतैः । कीर्णा तद्यशसां शीर्थैर्मुक्तकेशैरिवावनिः ॥ २१६ ॥ भीष्मो भालाग्रविश्रान्तभ्रमत्कुड्मलपाणिभिः ।
वृद्धवेतालनारीभिर्दत्ताशीः प्राहरचमूः ॥ २१७ ।। १. 'मनासिहासिभिः' ख-ग. २. 'अथेहक्सुत' ख-ग. ३. 'त्कुण्डल' ग.
Aho! Shrutgyanam