________________
३.१४
काव्यमाला |
अथ बन्धुवधक्रुद्धो युद्धोग्रस्तनयस्तव । आदित्यकेतुरादित्यवर्त्य कारि बकारिणा ॥ १६७ ॥ वित्रास्य द्विमूर्भीमो भीमोऽथ क्षेपभीमवत् । उन्ननादोच्चकैर्भालप्रारूढज्वलदीक्षणः ॥ १६८ ॥ उलूपीपन्नगीसूनुर्दिवि पित्रार्जुनेन यः । प्रार्थितो युद्धसाहाय्यं स इरावानथोत्थितः ॥ १६९ ॥ चूडामणिप्रभापिङ्गैः स पातालतुरङ्गिभिः । आवृत्तः प्राविशद्वैरिसेनां दावों वनीमिव ॥ १७० ॥ गान्धारबलाम्भोधितरङ्गाभतुरङ्गमम् । कालानल इवादीप्तो हेतिपातैरशोषयत् ॥ १७१ ॥ स हत्वा शकुनेः पुत्रान्सप्त दृष्टो न कैर्नदन् । अष्टमूर्तिरिवोच्चैस्तद्रक्तनिर्झरबिम्बितः ॥ १७२ ॥ दुर्योधनप्रणुन्नोऽथ तमभ्यायादलम्बुषः । मायामयहयारूढरक्षोभटघटावृतः ॥ १७३ ॥ मुखोच्छलच्छिखिज्वालाविषोल्काविषमायुधैः । रक्षःफणिभटैर्जग्मे युध्यमानैः क्षयो मिथः ॥ १७४ ॥ मण्डलाग्रेण कोदण्डं खण्डयित्वाधिरक्षसः । चक्रे विरावान्दीप्तोऽसाविरावान्भीतिदस्तदा ॥ १७५ ॥ उत्पत्यालम्बुषस्त्रासात्खं गतः खगवत्ततः । अनूत्पपात तं चासिचञ्चुः श्येन इवार्जुनिः ॥ १७६ ॥ इरावत्खङ्गवल्लया खे सवितेवादलेखया ।
द्विधा कृतोऽप्ययं क्रव्यात्पूर्णाङ्गो मुहुरेक्ष्यत ॥ १७७ ॥ अथ मायिन्यजेयेऽस्मिन्युद्धवलिंगनि फाल्गुनिः । कीनाशदास दोर्दण्ड चण्डान्फणभृतो दिशत् ।। १७८ ॥ चूडामणितडित्ताराः क्षयधाराधरा इव ।
ते तस्मिन्भस्मनि कृते ववृषुर्विषमं विषम् ॥ १७९ ॥
१. कल्पान्तरुद्रवत्.
Aho ! Shrutgyanam