________________
६भीष्मपर्व-२सर्गः]
बालभारतम् ।
आकृष्टं लोहघातेन पक्षवातेन वीजितम् । यमस्य पेयतां निन्ये राज्ञां रक्तं नरेषुभिः ॥ १५४ ॥ तदा तयोरुदञ्चद्भिस्तेजोभिरिव तापिते । गतेऽर्णवं रवौ चक्रुरवहारं महीभुजः ॥ १५५ ॥ (सप्तममहः) सुते सागरगामिन्याः सागरव्यूहकारिणि । प्रगे शृङ्गाटकव्यूहं तेने द्रुपदनन्दनः ॥ १५६ ॥ अङ्गत्विट्पूर्णमध्यानि चापचक्राणि दोष्मताम् । भोजनाहूतकीनाशसैन्यभाजनतां ययुः ॥ १५७ ॥ रिपुबाणोच्छलद्रक्ताधारासिक्तपुरोभुवः । अनुत्थितरजःपूराः सुखं शूराः प्रतस्थिरे ॥ १५८ ॥ क्षिपद्भिः माभृतां मौलीन्नालिकेरीफलोपमान् । परालचितुमारेभे वाहिनी भीष्मसायकैः ॥ ११९ ॥ तेन दीर्णोदरैश्छिन्न रुण्डैर्मुण्डैश्च भूभुजाम् । कपर्दकन्दुकाकारै रेमिरे यमकिंकराः ॥ १६० ॥ दधतः प्रधनाधिक्यं कुण्डलीकृतधन्वनः । अहो वृद्धस्य तस्याभूत्पार्थसेना पराङ्मुखी ॥ १६१ ॥ त्रस्तासु तासु सेनासु भीष्मः खेलन्यशोर्णवे । भीममेकं पुरोऽपश्यत्प्रतिबिम्बमिवात्मनः ॥ १६२ ॥ असृग्धारा बभुर्भीमहृदि भीष्मशराहते । रिपुदाहक्रियानिर्यप्रकोपाग्निशिखा इव ॥ १६३ ॥ अथ भीमशरग्रस्तसारथिः शान्तनो रथः । वाहैराहवतोऽकर्षि ददद्भिर्द्विषतां यशः ॥ १६४ ॥ बह्वाशिनं कुण्डधारं विशालाक्षापराजितौ । महोदरं पण्डितकं सुनाभं चेति ते सुतान् ॥ १६५ ॥ निघ्नतः सप्त भीमस्य प्रतापदहनस्तदा ।
समुच्छलद्भिः कीलालैः सप्तकील इवाज्वलत् ॥ १६६ ॥ (युग्मम्) १. 'शरायस्त' ग.
Aho! Shrutgyanam